________________
७२
हैमनूतनलघुप्रक्रिया धर्मों वां रक्षतु, धर्मों नौ रक्षतु । पक्षे युवाम् आवाम् । शीलं वां दीयते, शीलं नौ दीयते । पक्षे युवाभ्याम्, आवाभ्याम् । ज्ञानं वां स्वम्, ज्ञानं नौ स्वम् । पक्षे युवयोः, आवयोः ।
अमा त्वामा ।२।१।२४॥ पदात्परयोयुष्मदस्मदोरमा सह यथासंख्यं त्वा मा इत्यादेशौ वा भवतः । एकवाक्ये । धर्मस्त्वा रक्षतु, धर्मों मा रक्षतु । पक्षे त्वाम्, माम् ।। . डसा ते मे ॥२॥१॥२३॥ पदात्परयोर्युष्मदस्मदो.. डन्स इत्येताभ्यां सह ते मे इत्यादेशौ यथासंख्यं वा भवत एकवाक्ये । धर्मस्ते दीयते, धर्मों में दीयते । पक्षे तुभ्यम्, मह्यम् । धर्मस्ते स्वम्, धर्मों मे स्वम् । पक्षे तव, मम ॥
नित्यमन्वादेशे ।२।१।३१॥ पदात्परयोर्यदुक्तं वस्नसादि तदन्वादेशविषये नित्यं भवति । यूयं विनीतास्तद्वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति ।।
असदिवामन्यं पूर्वम् ।२।१।२५॥ सम्बोध्यवाचकं पदं युष्मदस्मद्भ्यां पूर्वमसदिव भवति । सति तस्मिन् यत्कार्य १- “पातु वां नौ जिनोऽयं च, दद्याद्वा नौ परं पदम् ।
मनो वां नौ सदा भूयाद् , दृढं धर्मे जिनोदिते” इति।। २-अन्वादेशः प्रागुक्तः । ३-सति तस्मिन् पदात्परत्वात् प्राप्तो वस्नसादिर्न भवति । पदात्परत्वाभावाच्च प्राप्तः सविभक्तिकः प्रयोगो भवतीत्याशयो बोध्यः ।