________________
हमनूतनलघुप्रक्रिया भामः स्थाने आकमित्यादेवो भवति । युष्माकेम्, अस्माकम् । त्वयि मयि । युष्मासु, अस्मासु ॥ ___ पदाद युगविभक्त्यैकवाक्ये बस्नसौ बहुत्वे ।२।१॥२१॥ पदात्परयोद्वितीयाचतुर्थीषष्ठीबहुवचनैः सह युष्मदस्मदोयथासंख्यं वसूनस् इत्यादेशो वा भवतः। तच्चेत्पदं युष्मदस्मदी चैकवाक्ये भवतः। धर्मों वो रक्षतु । धर्मों नो रक्षतु । पक्षे-धर्मों युष्मान् रक्षतु, धर्मोऽस्मान् रक्षतु । सपो वो दीयते, तपो नो दीयते । पक्षे-युष्मभ्यम्, अस्मभ्यम् । शीलं वः स्वमस्ति, शीलं नः स्वमस्ति । पक्षे-युष्माकम्, अस्माकम् । पदादिति किम् ? युष्मान् धर्मो रक्षतु । अस्मान् धर्मो रक्षतु । एकवाक्ये इति किम् ? एकस्मिन् पदे मा भूत्-अतियुष्मान् पश्यति, अत्यस्मान् पश्यति । वाक्यान्तरे च मा भूत्-ओदनं पचत, युष्माकं भविष्यति । पटं वयत, अस्माकं भविष्यति ॥
द्वित्वे वाम् नौ ।२।१।२२। पदात्परयोयुष्मदस्मदोद्वितीयाचतुर्थीषष्ठीद्विवचनैः सह यथासंख्यं वाम् नौ इत्यादेशौ वा भवतः । तच्चेस्पदं युष्मदस्मदी चैकवाक्ये भवतः । १-अन्त्यलुकि दीर्घः । २-आत्वे दीर्घः । ३-अन्यत्र श्लोकेनोदाहरणमुक्तम् तद्यथा
"धर्मो रक्षतु वो लोका ! धर्मो रक्षतु नः सदा । नमो वः श्रीजिनाः ! शुद्ध, ज्ञानं नौ दीयतां धनम् ॥ दर्शनं वो जिनाधीशाः !, पापं हरति नो रयाद् । इति ।।