________________
७०
हैमभूतमलघुप्रक्रिया टायोसि यः ।।१७।। युष्मदस्मदोः टा ङि ओस् इत्येषु स्यादिषु परेषु यकारान्तादेशो भवति । स्वया, मया । युवाभ्याम्, आवाभ्याम् । युष्माभिः, अस्माभिः ॥
तुभ्यं मह्यं ड्या ।२।१।१४॥ युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा डेप्रत्ययेन सह यथासंख्यं तुभ्यं मह्य मिति आदेशौ भवतः । तुभ्यम्, मह्यम् ॥
अभ्यम् भ्यसः ।२।१।१८॥ युष्मदस्मद्भ्यां : परस्य चतुर्थीबहुवचनस्य भ्यसः स्थाने अभ्यमित्यादेशो भवति ॥
शेषे लुकू ।२।१।१८॥ यस्मिन् स्यादावात्वं यत च कृतं ततोऽन्यस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुग भवति । युष्मभ्यम् , अस्मभ्यम् ।।
ङसेश्चाद ।२।१।१९॥ युष्मदस्मद्भ्यां परस्य उसे: पश्चमीभ्यसश्च स्थाने अद् इत्यादेशो भवति । त्वेत् , द् । मत् , द् । युष्मत् , द् । अस्मत् , द् ।।
तव मम ङसा ।२।१।१५॥ युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा ङ्स्प्रत्ययेन सह क्रमेण तव मम इत्यादेशौ भवतः । तव, मम, युवयोः, आवयोः ॥
आम आकम् ।२।१।२०॥ युष्मदस्मद्भ्यां परस्य १-त्वाद्यादेशेऽल्लुकि यत्वम् । २-युवादेशेऽल्लुकि आत्वे दीर्घः । ३-आत्वे दीर्घः। ४-अन्त्यलुक्यल्लुक्छ । ५-त्वादेशेऽल्लुम्यन्त्यलुक्यल्लुकू । ६-अन्त्यलुक्यल्लुकू।