SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया मन्तस्य युवावी द्वयोः ।२।१।१०॥ द्वित्वविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मकारान्तस्याऽवयवस्य स्यादौ परे क्रमेण युव आव इत्यादेशौ भवतः ॥ अमौ मः।२।१।१६॥ युष्मदस्मद्भ्यां परयोरम् औ इत्येतयोर्म इत्यादेशो भवति । अकार उच्चारणार्थः ॥ __युष्मदस्मदोः ।२।१६।। युष्मदस्मदोर्व्यञ्जनादौ स्यादौ परे आकारान्तादेशो भवति । युवाम् , आवाम् ॥ यूयं वयं जसा ।२।१।१३।। युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा जसा सह यथासंख्यं यूयं वयमित्यादेशौ भवतः प्राक् चाकः । यूयम् । वयम् ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।११११॥ एकखविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मकारान्तस्यावयवस्य स्यादौ परे प्रत्ययोत्तरपदयोश्च परतः क्रमेण व म इत्यादेशौ भवतः । त्वाम्, माम् । युवाम्, आवाम् ॥ शसो नः ।२।१।१७॥ युष्मदस्मद्भ्यां परस्य शस: सर्वस्य स्थाने न इत्यादेशो भवति । अकार उच्चारणार्थः। युष्मान् , अस्मान् ॥ १-युवादेशे कृते युव अदिति स्थिते लुगस्येत्यल्लुकि आत्वे च समानानामिति दी? बोध्यः । एवमन्यत्रापि । २-त्वाद्यादेशेऽल्लुकि आत्वे दीर्घः । ३-नादेशे आत्वे दोघः। ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy