SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ हैमनूतनलघुप्रक्रिया अंहःसु। हे अहः । ब्रह्म, ब्रह्मणी, ब्रह्माणि । ब्रह्मणा, ब्रह्मभ्याम्, ब्रह्मसु ॥ ___क्लीबे वा ।२।१।९३॥ सम्बोधने नाम्नो नस्य क्लीबे लुग् वा भवति । ब्रह्म ! ब्रह्मन् ! । इदम् , इमे, इमानि । किम्, के, कानि । शेषं पुंवत् । चत्वारि । शेषं पुंवत् । पयः, पयसी, पयासि, पयसा, पयाभ्याम् , पयस्सु, पयःसु । एवं मनस् वचस् तपस् प्रभृतयः। अदः, अमू, अमूनि । शेषं पुंवत् । काष्ठतट् , काष्ठतक्षी, काष्ठत ईक्षि। काष्ठतक्षा, काष्ठतड्भ्याम् । काष्ठतइत्सु, काष्ठतट्सु॥ ॥ इति व्यञ्जनान्तनपुंसकलिङ्गप्रकरणम् ॥ ॥ अथ युष्मदस्मच्छब्दप्रक्रिया ॥ युष्मदस्मदी अलिङ्गे । “ नन्ता संख्या डतियुष्मदस्मच्च स्युरलिङ्गका" इति लिङ्गानुशासनात् ॥ स्वमहं सिना प्राक् चाकः ।२।१।१२॥ युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा सिना सह यथासंख्यं त्वम् अहम् इत्यादेशौ भवतः । प्राक् चाकः । त्वम् , अहम् ॥ १-अह्न इति रुः, शषसे इति सः । २-न वमन्तसंयोगात् । ३-निदीचे जत्वम् । ४-न वमन्तसंयोगात् । ५-वाः शेषे । ६-स्महतोः । '७-विभक्तिकार्य प्राक् पश्चाद् मूत्वम् । ८-धुटां प्राक् । म्नां धुड्वर्गे । ९-अःप्रसङ्गे अकप्रत्ययविधानात्प्रागेव त्वमहमादेशावित्याशयः । पश्चादकः, तेन त्वकमित्यादिप्रयोगः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy