________________
६६
हैमनूतनलघुप्रक्रिया
चतुरशब्दो नित्यं बहुवचनान्तः । चतेस्रः । चतसृभिः, चतसृभ्यः, चतसृणीम् । चतसृषु, हे चतस्रः । गीः, गिरौ, गिरः । गिरा, गर्भ्याम् । गीर्षु । हे गीः ॥
दिव: औ: सौ | २|१|११७॥ दिवोऽन्तस्य सौ परे औभवति । द्यौः, दिवौ, दिवः ॥
उः पदान्तेनूत् | २|१|११८ ।। पदान्ते दिवोऽन्तस्य उकारादेशो भवति । तस्य च दीर्घत्वं न भवति । द्युभ्याम्, षु । हे द्यौं । दिकू, दिगें, दिशौ दिशः, दिग्भ्याम्, दिक्षु, हे दि । आशी, आशिष, आशिषः, आशीर्भ्याम्, आशीष्षु आशी:- ५, हे आशीः । असौ अभूः अमूम्, अमुया, अमृभिः, अमुष्यै, अमृभ्यः, अमुष्याः, अमुयोः, अमूपाम्, अमुष्याम्, अमृषु || हाऽऽहो | २|१|८५|| नहेर्ब्रस्थानाऽऽहश्च धातोईकारस्य घुडादौ प्रत्यये पदान्ते च क्रमेण धकारातकारावादेशौ भवतः । उपानत्, उपानेद्, उपानहौ, उपानहः । उपानद्भ्याम्, उपानत्सु ॥ इति व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् ॥
१ - चतत्रादेशे ऋतो र इति रत्वम् । २ - अतिसृचतसृ इति पर्युदासान्न दीर्घः । ३- पदान्ते इति दीर्घः । ४-दो माम्यन्तस्थेति षत्वे अरोरिति रत्वे न रादिति द्वित्वनिषेधः । ५-ऋत्विगितिः । ६- स्त्वे पदान्त इति दीर्घः । ७-रुत्वे दीर्घे च शत्रुसेति सत्त्वे शिव्यवधानेऽपि त्वे सस्य शावितिषः । ८-अवे किन स्त्रियामा अटमोद इति सत्यम् से डः । ९ - उपपूर्वाद् नधातोः त्रिपदी उपानहून्दधर्मनिर्मितदभावाचकः ।