________________
हैमनूतनलघुप्रक्रिया
६५ ॥ अथ व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् ॥ तत्र चकाराधन्ता वाच स्रजित्यादयः पुल्लिङ्गचकारान्तादिवदेव बोध्याः । अथ दकारान्ताः। तत्र त्यदशब्दस्य नामसंज्ञायां सौ आद्वेर इत्यत्वे लुगस्येत्यलुकि--
आत् ।२।४।१८॥ अकारान्तानाम्नः स्त्रियामाप् प्रत्ययो भवति । स्या, त्ये, त्याः । सा, ते, ताः । या, ये, याः। एषा, एते, एताः । अन्वादेशे-एनाम्, एने, एनाः, एनया, एनयोः । शेषं सर्वत्र सर्वावत् । अय् शब्दो बहुवचनान्तः ।। ___अपः ।।४।४८॥ अपः स्वरस्य शेषे घुटि परे दीर्थों भवति । आपः, अपः ॥
अपोऽद भे ।२।१।४॥ अप् इत्यस्य भकारादौ स्यादौ परे अद् इत्यादेशो भवति । अद्भिः, अद्भ्यः , अपाम् , अप्सु । स्वाएँ , स्वाब , स्वापौ । स्वपः । स्वद्भ्याम्, स्वप्सु । हे स्वप, हे स्वब । ककुएँ , ककुब् । ककुभौ, ककुभः । ककुभ्याम्, ककुप्सु । इयम् , ईमे, इमाः। अनया, आभ्याम्, आभिः, अस्यै, आभ्यः, अस्याः। अनयोः, आसाम्, अस्याम् आसु । अन्वादेशे-एनाम, एने, एनाः, एनया, एनयोः। १-आपि दीर्धे दीर्घड्याबिति सकारलुक् । तः सौ स इति सः । एवमग्रेऽपि ।
२-पदत्वे तृतीयत्वे अघोष इति प्रथमत्वम् । ३-सुजला । ४-ककुभशन्दो दिगर्थे । ५-अत्वे लुकि च स्त्रियामापि दीधे च इयमादेशः । ६-पूर्ववदापि दीर्वं मत्वे ईत्वम् । एवमग्रेऽपि ।