________________
६४
हैमनूतनलघुप्रक्रिया ___ अनडुहः सौ १३४१७२॥ अनडुशब्दस्य धुडन्तस्य सौ परे धुटः प्राग नोऽन्तो भवति । अनड्वान् । अनड्वाहौ। अनडुहः । अनडुहा, अनडुद्भ्याम् । अनडुत्सु । हे अनड्वन् ! ।
हो धुट पदान्ते ।२।१।८२॥ हकारस्य धुडादौ प्रत्यये परे पदान्ते च ढकारो भवति । मधुलिट् , मधुलिड, मधुलिहौ, मधुलिहः । मधुलिड्भ्याम् , मधुलित्सु, मधुलिमु । हे मधुलिट् ॥ ___ वादेर्दादेघः ।२।१।८३।। वादेर्धातोर्यों दकारादिरवयवस्तस्यावयवस्य हकारस्य धुडादौ प्रत्यये परे पदान्ते च घकारादेशो भवति । गोधुक , गोधुग । गोदुहौ, गोदुहः, गोधुग्भ्याम् , गोधुक्षु, हे गोधुक, हे गोधुम् ॥ ___ मुह द्रुहू स्निह् स्नुहो वा ।२।१।८४॥ मुह-द्रुहस्नुह-स्निह-इत्येषां सम्बन्धिनो हकारस्य धुडादौ प्रत्यये परे पदान्ते च धकारादेशी वा भवति । तत्वमुक्, तत्त्वमुग , तत्त्वमुट्, तत्त्वमुड् । तत्वमुहौ, तत्त्वमुहः, तत्त्वमुग्भ्याम् , तत्त्वमुड्भ्याम्, तत्त्वमुक्षु, तत्त्वमुत्सु, तत्वमुसु । हे तत्त्वमुक , ग॥
॥ इति व्यञ्जनान्तपुल्लिङ्गप्रकरणम् ॥ १-वाःशेष इति वादेशे नोन्तत्वे च पदस्येति हकारलोपः । २-सन्स् ध्वन्स इत्यादिना दः। ३-अघोष इति प्रथमः। ४-घत्वे गडदबादिति धत्वम् । ५.-मुह द्रुह् इति घत्वे धुटस्तृतीय इति तृतीयत्वे अघोषे इति प्रथमत्वे नाम्यन्तस्थेति षः। घत्वविकल्पे हो धुडिति ढत्वे तृतीयत्वे त्सादेशे पदान्तादिति टवर्गत्वनिषेधः ।