SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६२ हैमनूतनलघुप्रकिया दोषौ, दोषः । दोष्णः । दोषा। दोषभ्याम् , दोभ्या॑म् । दोष्णि, दोषणि, दोषे । दोष्षु, दोःषु । हे दोः ! । असन्तः सुमनस् शब्दः। अभ्चादेरिति दीर्घः। सुमनाः, सुमनसौ, सुमनसः । सुमनोभ्याम् । सुमनैस्सु, सुमनःसु । हे सुमनः!। एवं वेधस् मुवचम् प्रभृतयः । उदित् श्रेयस् शब्दः । श्रेयान् , श्रेयांसौ, श्रेयसा, श्रेयोभ्याम् , श्रेयस्सु, श्रेयःसु । हे श्रेयन् ! । विद्वान् , विद्वांसौ ॥ क्वसुष्मतौ च ।।१।१०५॥ णि-क्य-घुड्वर्जे यकारादौ स्वरादी मतौ च प्रत्यये परे क्वसः स्थाने उष् भवति । विदुषः, विदुषा । सन्मध्वन्स्क्व स्सनडहो दः ।२।१।६८॥ सन्स्ध्वन्सोः क्वस्प्रत्ययान्तस्य सकारस्याऽनडुड्शब्दस्य च योऽत्यस्तस्य पदान्ते दकारो भवति । विद्वद्भ्याम् । विद्वत्सु, हे विद्वन् !। पंसोः पुमन्स् ।१।४।७३॥ पुंसु इत्येतस्य उदितो घुटि परे पुमन्स् इत्यादेशो भवति । पुमान् । पुमांसौ, पुंसा, पुभ्याम् , पुंसु, हे पुमन् ! । उशना, उशनसौ, उशनसः । उशनोभ्याम् , उशनस्सु, उशनःसु ॥ १-दन्तपादेति दोषन्नादेशः । २-रुत्वं वैकल्पिकं सत्वम् । ३-ऋदुदित इति नोन्तः, न्स्महतोरिति दीर्घः । ४-शिड्हे इत्यनुस्वारः । ५-स्महतोरिति दीर्घः । ६-पदस्येति सकारलोपः । ७-ऋदुशनसिति सेर्डा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy