SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६० हैमनूतनलघुप्रक्रिया इत्येतयोरुकाररस्य वा इत्यादेशो भवति । चत्वारः । चतुरः, चतुर्भिः, चतुर्थ्यः चतुर्णाम् ॥ __अरोः सुपि रः।१।३।५७॥ वर्जितस्य रेफस्य स्थाने सुपि रेफ एव भवति । न रात् स्वरे ।१॥३॥३७॥ रेफात्परस्य शिटः स्थाने स्वरे परे द्वे रूपे न भवतः । चतुषु । प्रियचत्वाः, प्रियचत्वारौ। तोऽनडुच्चतुरो वः ।१।४।४१॥ अनडुह चतुर इत्येतयोरुकारस्य सम्बोधने सौ परे व इत्यादेशो भवति । हे प्रियचत्वः !। प्रियचतुरा । प्रियचतुाम् । प्रियचतुराम् । विद, विड्, विशौ, विशः । विड्भ्याम् , वित्सु, विट्सु । तत्त्वप्राट्, तत्त्वप्राइ, तत्त्वप्राशौ । तत्त्वप्राड्भ्याम् । तत्त्वप्राशि । तादृक्, तादृग् । तादृशी, तादृशः। तादशा । तादृग्भ्याम् । तादृक्षु । एवं यादशादयः । घृतस्पृक्, घृतस्पृग् । घृतस्पृशः, घृतस्पृग्भ्याम् । घृतस्पृक्षु ।। नशो वा ।२।१७०॥ नशः पदान्ते गकारादेशो वा भवति । जीवनक, जीवनन । जीवन, जीवनइ । जीवनशः। १-संख्यानामिति नामि णत्वे च दिहेंति वा द्वित्वं बोध्यम् । २-अत्र हाँदिति प्राप्तं द्वित्वं निषिध्यते । नाम्यन्तस्थेति षः । ३वित्स्विति तु पाणिनीयानुसारेण । सिद्धहेमानुसारेण त्वत्र डकारश्रुतिरेव । तवर्गस्येति तु नेह प्रवर्तते, पदान्ताट्टवर्गादिति निषेधात् । ४-ऋत्विमिति गत्वे अघोषे प्रथम इति प्रथमत्वे नाम्यन्तस्थेति षः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy