SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया च परे अवर्जितस्य इदमः स्थाने अन इत्यादेशो भवति । अनेन ॥ अनक ।२।१।३६॥ त्यदादिसम्बन्धिनि व्यञ्जनादौ स्यादौ परे अगवर्जित इदम् अं भवति । आभ्याम् ॥ ___ इदमदसोऽक्येव ।१।४।३॥ इदम् अदस् इत्येतयोरक्येव सत्यकारात् परस्य भिस ऐस् भवति। तेनेह न भवति । एभिः । अस्मै । एभ्यः, अस्मात् , अस्माद् । अस्य, अनयोः, एषाम् , अस्मिन् , एषु । अन्वादेशे-ऐनम् , एनौ, एनान् , एनेन, एनयोः ॥ किमः कस्तसादौ च ।२।१॥४०॥ त्यदादिसम्बन्धिनि स्यादौ तसादौ च परे किम्शब्दस्य स्थाने क इत्यादेशो भवति । कः । अक्सहितस्याप्ययमादेशः। कौ, के। शेषं सर्ववत् । चतुशब्दो बहुवचनान्तः ॥ वाः शेषे ।१।४।८२ शेषे घुटि च परे अनडुहू चतुर् १-इदमोऽत्वे लुकि च कृते सर्वस्येद इत्यस्य स्थाने ऊरादेशो भवतीत्यर्थो बोध्यः । २-अत्वे कृते अत आ इत्यात्वम् । ३-परत्वादकारादेशः, पश्चात् स्मै । ४-इदम् इत्येनदादेशे आद्वेर इत्यत्वे लुगस्येत्यलुक् । ५-किम् शब्दात्स्वार्थे अकि कृतेऽपि अनेन सर्वस्य कादेशे क इत्येवमेव रूपं न तु कक इति बोध्यम् । ६-सम्बोधने सिं विना स्यमौजसः शिश्च शेषघुट इति बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy