SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ---- हेमनूतनलघुप्रक्रिया पञ्चन् प्रभृतयो राजवत् । सप्तन् प्रभृतयः पश्चन्वत् । अष्टन् शब्दस्य तु विशेषः॥ वाऽष्टन आः स्यादौ ।१।४।५२॥ अष्टन् शब्दस्य स्यादौ परे आकारान्तादेशो वा भवति ॥ ___ अष्ट और्जशशसोः ।१।४।५३॥ अष्टाशब्दसम्बन्धिनोर्जसशसोः स्थाने औकारादेशो भवति । अष्टौ । आत्वाभावे-अष्ट । अष्टाभिः, अष्टभिः। अष्टानाम् । अष्टाम् । अष्टसु । तुण्डैिप् , तुण्ढिब् । तुण्ढि भौ, तुण्डिब्भ्याम् । तुण्डिप्सु ॥ अपमियं पुस्त्रियोः सौ।२।११३८॥ त्यदादिसम्बन्धिनि सौ परे पुंस्त्रिलिङ्गयोरिदमः स्थाने यथासंख्यम् अयम् इयमित्यादेशौ भवतः । अयम् ॥ दो मः स्यादौ ।२।१।३९।। त्यदादिसम्बन्धिनि स्यादौ परे इदमो दकारस्य मकारादेशो भवति । इमौ । इमे । इमम् , इमान् ॥ टोस्यनः ।२।१।३७॥ त्यदादिसम्बन्धिनि टायामोसि १-नकारस्याऽऽत्वे समानदीर्धे औत्वे ऐदौदित्यौत्वम् । २-तुण्ढिम् ज्ञब्दः । गडदबादेरिति चतुर्थः । धुटस्तृतीयः । विरामेवा। ३-परत्वादाटेर इत्यत्वे लुगस्येति लुकि पश्चादनेनाऽयमादेशः । अत्वमयोह्यायमादेश इत्यपि मतम् । एवमनेनेत्यादावरि वोध्यम् । अयमाघादेशस्य नित्यत्वं तु न शङ्कनीयम् , शब्दान्तरप्राप्तत्वादिप्ति ध्येयम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy