________________
५०
हैमनूतनलघुप्रक्रिया मुआश्च । एवं पयोमुच्प्रभृतयः। क्विबन्तात् प्रत्यचशब्दात्सौ प्रत्यच् स इति स्थिते ॥
अचः ।१।४।६९॥ धुडन्तस्यान्चधातोर्युटि परे धुटः प्राग नोऽन्तो भवति ।
पदस्य ।।१।८९॥ पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशो भवति ॥ - युजञ्चक्रुश्चो नो ङः ।२।११७१।। युज्-अच्-क्रुश्चां नकारस्य पदान्ते वर्तमानस्य डकारादेशो भवति । प्रत्यङ्, प्रत्यश्चौ। हे प्रत्यङ् ॥ ___ अच्च् प्राग दीर्घश्च ।२।१।१०४॥ नकाररहितस्याञ्चधातोः सर्वस्य णि-क्य-घुट्वर्जे यकारादौ स्वरादौ च 'प्रत्यये परे चकारादेशो भवति, पूर्वस्वरस्य च दीर्थों भवति । प्रतीचः। प्रत्यग्भ्याम् । प्रत्यक्षु । प्राङ्, प्राश्चम् , प्राचः, प्राग्भ्याम् । प्राक्षु, हे प्राङ्॥ ___ उदच उदीच् ।२।१।१०३॥ कृतनलोपस्य उत्पूर्वकस्या
धातोरुदच. इत्यस्य णिक्य घुड्वर्जे यकारादौ स्वरादौ च १-पदत्वे कत्वे तृतीयत्वे अघोष इति प्रथमत्वे षत्वम् । २-म्नामिति पञ्चमत्वम् । केचित्तु तवर्गस्येति चवर्गमाहुः । ३-अच्छेत्यादिसूत्रविषये प्राग् इवर्णादेरिति न प्रवर्तते दीर्घारम्भसामर्थ्यात् । पूर्व पूर्वोत्तरपदयोः कार्य पश्चात्सन्धिकार्यमिति ज्ञापनाच्च ।