________________
हैमनूतनलघुप्रक्रिया वाऽन्यतः पुमांष्टादौ स्वरे ।१।४।६२॥ विशेष्यवशान्नपुंसकस्य नाम्यन्तस्य नाम्नः टादौ स्वरादौ परे पुंवद्वा भवति । अनेन पुंवद्भावे नागमहूस्वयोरभावः। ततश्च पक्षे पुवद्रूपम् । पटुना, पटुने, पटवे । पटोः, पटुनः । पटुनोः, पट्वोः। पटूनाम् । पटौ पटुनि । क्लीबे दीर्घान्तं नाम न भवति, हस्वविधानात् । एवं च नी-ग्रामणीप्रभृतीनां वारिवत पक्षे च पुंवद्रूपं बोध्यम् । कर्तृ, वर्तृणी, कर्तृणि । हे कर्तः, हे कर्तृ ! । कर्ता, कर्तृणा, कत्तः, कर्तृणः, कर्तरि, कर्पणि । एकारैकारान्तानां ह्रस्वत्वेन वारिवद्-रूपाणि । ओकारौकारान्तानां हसत्वे मधुशब्दवद्रूपाणि । अतिहि । अतिरि । व्यजनादावात्तम् । अतिराभ्याम् । अनिरीणाम् । अतिगु, अतिनु, इत्यादि।
॥ इति स्वरान्तनपुंसकलिङ्गप्रकरणम् ॥
॥ अथ व्यञ्जनान्तपुंलिङ्गप्रकरणम् ॥ चकारान्तः सुवाचशब्दः ॥.......... ..
चजः कगम् ।२।१॥८६॥ चकारजकारयोः स्थाने "धुडादौ प्रत्यये परे पदान्ते च ककारमकासदेखौ भवतः । मुवाक्, सुवाग । बाचौ । सुवाचः। सुवाचा अवाग्भ्याम् । १-पुलिंङ्गे क्लीबे नामावेशे दीर्घः ॥ २- विरामे वा ।
३-नामेति पदत्वे ककारादेशे तृतीयत्वम् ।