SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४८ हैमनूतनलघुप्रक्रिया क्लोबे ।२।४।९७॥ नपुंसके वर्तमानस्य स्वरान्तस्य नाम्नो हुस्वो भति। श्रीपम् । शेषं कुलवत् । एवं विश्वपादयः॥ ___ अनतो लुप् ।१।४।५९॥ अकारान्तवर्जस्य क्लीबस्य सम्बन्धिनोः स्यमोः स्थाने लुप् भवति । वारि ॥ अनामस्वरे नोऽन्तः ।।४।६४॥ नाम्यन्तक्लीबस्य सम्बन्धिनि आम्वर्जे स्वरादौ स्यादौ परे नोऽन्तो भवति । वारिणी, बारीणि । वारिणा, वारिणे, वारिणः, वारिणोः, वारीणाम् । वारिणि ॥ नामिनो लुग्वा ११।४।६१॥ नाम्यन्तक्लीवस्य सम्बन्धिनोः स्यमोः स्थाने लुग् वा भवति । हे वारि, हे वारे ! । शेषं मुनिवत् । मधु, मधुनी, मधूनि, मधुना, हे मधो, हे मधु ! । शेषं वारिवत् ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ।१।४।६१॥ दधि, अस्थि, सक्थि, अक्षि-इत्येषां नाम्यन्तानां नपुंसकानामन्त्यस्य स्थाने टादौ स्वरादौ परे अन् इत्यादेशो भवति । दना,दध्ने, दध्नः, दध्नोः, दध्नाम् , दध्नि, दधनि । शेषं वारिवत् ॥ १-हस्वापश्चति नाम् । दीर्थो नामिति दीघे णत्वम् । २-लुकि स्थानिवद्भावेन गुणः, लुपि तु न स्थानिवत्त्वम् , "लुप्यरवृल्लेनत्" इति निषेधादिति लुग्विकल्पे लुपि न गुण इति बोध्यम् । ३-अमोऽस्य । ४-ई डौ वा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy