________________
हैमनूतन लघु प्रक्रिया
नि दीर्घः | १|४|८५ ॥ शेषे' घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घो भवति । कुलानि । द्वितीयायां प्रथमावत् । हे कुलै ! | शेषं देववत् । सर्वम्, सर्वे सर्वाणि । एवं द्वितीयायामपि । हे सर्व ! | शेषं पुंवत् ||
४७
पञ्चतोऽन्यादेरनेकतरस्य दः | १|४|२८|| एकतर - शब्दवर्जस्य सर्वादेरन्यादिपञ्चकस्य नपुंसकस्य सम्बन्धिनो: स्यमोः स्थाने द् इत्यादेशो भवति । अन्यंत्, अन्यद् । इतरत्, इतरद्, अन्यतरत् अन्यतरद् । कतरत् । कतरद् । कतमत्, कतमद् । शेषं सर्ववत् । एकतरम् । शेषं सर्ववत् । औसानि, आसनानि । आस्ना, आसनेन । आसैभ्याम्, आसनाभ्याम् । आस्निं, आसनि, आसने ॥
"
घुट प्राक् | १|४|६६ || स्वरात्परा या धुजातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् शौ परे नोऽन्तो भवति । हैन्दि, हृदयानि । हृदा, हृदयेन । हृद्भ्याम्, हृदयाभ्याम् । उदानि, उदकानि । उद्ना, उदकेन । उदभ्याम् उदकाभ्याम् । उनि, उदनि, उदके । शेषं यूषनवत् । पक्षे कुलवच्च ॥
"
१ – सम्बोधनैकवचनं विहाय शिस्यमैौजसः शेषघुट्शब्देनोच्यन्त इति ध्येयम् । २-अदेतः स्यमोर्लुक् । ३ - विरामे वा । ४ - मासनिशासनस्य शसादौ लुग्वा । ५ - नाम्नो नोऽनह्नः । ६-ई ङौ का । ७ - म्नामिति बहुवचनसामर्थ्याद् वर्गान्त्य एव भवति णत्वं बाधित्वे ध्येयम् ।