SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४१ अझै च ।१।४।३९॥ ऋकारस्य स्थाने डिविभक्तौ घुटि च परे अरित्यादेशो भवति । पितरौ, अतिपितरौ, पितन् , अतिपितॄन् । पित्रा, अतिपित्रा । ऋतो डुर् ।१।४।३७॥ ऋकारात्परयोर्डसिङसोः स्थाने डुर् इत्ययमादेशः स्यात् । पितुः, अतिपितुः पितृणाम् , अतिपितृणाम् । पितरि, अतिपितरि । पितृषु, अतिपितृषु । पितैः । अतिपितः । एवं भ्रातृदेवादयः । ना, नरौ, नृन् । व्रा, नुः, ब्रोः ॥ नुर्वा ।१।४।४८॥ नृशब्दसम्बन्धिनः समानस्य नामि परे दीर्घा वा स्यात् । नृणाम् , नृणाम् , नरि, नृषु । हे नः। कर्ता॥ तृस्वसृनप्तनेष्टुत्वष्टक्षतहोतृपोतृप्रशास्त्रो घुट्यार ।१।४।३८॥ तृप्रत्ययान्तस्य तृन्प्रत्ययान्तस्य स्वसादिशब्दानां च सम्बन्धिन ऋकारस्य स्थाने घुटि परे आरित्यादेशो भवति । कर्तारौ । अतिकर्तारौ । शसादिषु पितृवत् ॥ क्रुशस्तुनस्तृच् पुंसि ।१।४।९१॥ कुशूधातोः परो यस्तुन् तस्य शेषे घुटि परे तृजादेशो भवति, पुंसि । क्रशधातोस्तुन् प्रत्यये क्रोष्टुशब्दः, ततः सौ-क्रोष्टा, क्रोष्टारौ। क्रोष्ट्न् । १-डित्यन्त्येति ऋकारस्य लुक् । २-इस्वस्य गुणः। ३-सेर्डाः। जम्बूकः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy