________________
aanaanaa
४२
हैमनूतनलघुप्रक्रिया _____टादौ स्वरे था ।१।४।९२॥ टादौ स्वरादौ स्यादौ परे क्रुशः परस्य तुनस्तृजादेशो वा भवति । क्रोष्ट्रा, क्रोष्टुना । क्रोष्टे, क्रोष्टवे । क्रोष्टुः, क्रोष्टोः । क्रोट्रोः, क्रोष्ट्वोः । क्रोष्टूनाम् । क्रोष्टरि, क्रोष्टौ । क्रोष्टुषु । हे क्रोष्टी !। अतिहे। अतिहयौ । अतिहया। अतिहः। अतिहयोः । अतिहयाम् । अतिहयि । हे अतिहे ! ॥
आ रायो व्यञ्जने ।२।११५॥ रैशब्दस्य व्यञ्जनादौ स्यादौ परे आकारान्तादेशो भवति । सुरीः। सुरायो । सुराभ्याम् । मुरायाम् । हे सुराः ! ॥ ___ ओत औः ।१।४।७४॥ ओकारस्य ओकारान्तादेव विहिते घुटि परे औकार आदेशो भवति । गौः, गावौ ॥ __ आ अम् शसोऽता ।१।४।७५॥ ओकारस्य अम्शसोरकारेण सह आकारो भवति । गाम् , गाः। गवा, गोभ्याम् । गोः, गवाम् । गोषु । हे गौः ! । एवं सुद्योप्रभृतयः। ग्लौः। ग्लावौ । ग्लावः । ग्लावाम् । ग्झौषु । एवं सुनौप्रभृतयः ।
इति स्वरान्तपुंलिङ्गप्रकरणम् ॥
१-हस्वस्य गुणः, से लुक् । २-धनबान् । ३-चन्द्रः ।