SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया अदन्तानां गुणो वृद्धिर्य चुरादेश्व नो भवेत् । संक्षेपेण फलं चैतदीषितं वा रेण हि ॥ ६ ॥ ॥ इति वृत्तगणफलम् ॥ ॥ अनिट् कारिका ॥ ५८९ श्वि- श्रि-डी-शी-यु-रु-क्षु- क्ष्णु, णु स्तुभ्यश्च वृगो वृङः । ऊदृदन्ताद् युजादिभ्यः स्वरान्ता धातवोऽपरे ॥ १॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचि रिची पचिः ॥ २ ॥ कुटादिगणपाठस्तु कुटादेर्जिद् णिवर्जितप्रत्ययस्य ङिद्वत् भावात्कुटिताsकुदित्यादौ गुणाभावार्थ इत्यर्थः । वृद्धिस्तु न क्वापि प्राप्तेति वृद्धिपदमभ्यासादापतितमिति बोध्यम् । मतान्तरसंग्रहार्थं वा तद्बोध्यम् । १३प्रसङ्गादन्यदपि गणसम्बद्धमाह - अदन्तानामिति । चुरादिगणे अदन्तत्वेनप्रतिज्ञातानां कथादीनां यथास्वं गुणो वृद्धिश्च न भवति । अतो लोपस्य स्थानिवद्भावेन तदप्राप्ते रिति बोध्यम् । चुरादेश्च नित्यणिजन्तasarda यङ् प्रत्ययो न भवति, व्यञ्जनादेरेकस्वरादेव यविधानादिति बोध्यम् । || १४ || संक्षेपेणैतत्फलं नरस्येष्टमित्यर्थः १- श्वि- श्री - डी-शी-यु-रु-क्षु-क्ष्णु-णु-स्नु एभ्यो ऽपरे वृग् वृङ्भ्यां चापरे अदन्ताद् ऋइन्ताद् युजादिभ्यश्चापरे ये धातुपाठे स्वरान्ता एकस्वराश्च धातवस्ते अनुस्वारेत इत्यर्थः । अनुस्वारेतश्चैकस्वरादित्यादिनेग्निषेधादनिट इत्याशयः । २ - शकींच् इति दिवादिः, शक्लंट् इति स्वादिः । तदेवं द्विप्रकारोऽपीत्यर्थः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy