________________
प्राधया
५८८ हैमनूतनलवुप्रक्रिया
ज्वलादे णों विकल्पेन यजादेः सम्प्रसारणम् ।... घेटादीनां भवेद हस्वो णौ परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥
दीनां गदितो हृस्वो ल्वादेः तक्तयोश्च नो भवेत् । युंजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादे नागमः शे च कुटादित्वात्सिचि परे। गुणवृद्धयोरभावश्च, कथितो हेमसरिणा ॥५॥ वृतादिगणफलं वृद्भ्यः स्यसनोरित्यनेन विकल्पेनात्मनेपदमित्यर्थः । ३ज्वलादिगणपाठो ज्वलादे विकल्पेन ण प्रत्ययो ‘वा ज्वलादि' इत्यादिना विधानार्थः । ४-यजादिगणपाठो यजादिवचेरित्यादिना रवृद्विधानार्थः । इह वृच्छब्देनेष्टं कार्य मन्यत्र व्याकरणे सम्प्रसारणशब्देनोच्यते इति बोध्यम् । ५-घटादिगणपाठफलं घटयतीत्यादौ णौ वृद्धौ सत्यां घटादेह्रस्व इत्यादिना हृस्व इति तात्पर्यम् । ६-पुषादिगणपाठफलं लूदिद्द्युतादिपुष्यादेरित्यादिनाऽद्यतन्यां परस्मैपदे अडित्यर्थः। ७-स्वादिगणपाठफलं नत्वम् सूयत्याद्योदित इति सूत्रात् । तेन सूनः सूनवानित्यादौ सूयत्याद्योदितइत्यनेन क्तक्तवत्वोस्तकारस्य नकारो भवति । ८प्वादिगणपाठस्तु पुनातीत्यादौ प्वादेह्रस्व इति ह्रस्वविधानार्थ इत्यर्थः ९-ल्वादिगणपाठस्तु लून इत्यादौ ल्वादेरित्यादिना क्तादीनां तकारस्य नत्वार्थः । १०-चुरादौ युजादिगणपाठस्तु युजादेनैवेति णिज्विल्पार्थ इत्याशयः । युजादिर्विकल्पेन चुरादिरित्येवं नाशयः, गणविकल्पनाभावादिति बोध्यम् । ११-मुचादिगणपाठः शेपरे मुञ्चतीत्यादौ मुचादितृफेत्यादिना नोन्तार्थ इत्यर्थः । ॥१२॥