SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ हैमनूसमधुमक्रिया स्त्रीलिङ्गाथै लैकारो हि उत औ चिति वो मवेद । शः क्रयादिः शिति प्रोक्तः पितोऽङो विशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र म सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥१०॥ ॥ वृत्गणफलम् ॥ द्युतादेरेद्यतन्यां चाऽङात्मनेपदमिष्यते । वृदादिपञ्चकेभ्यो वा स्यसनोरात्मनेपदम् ॥१॥ जातीयरादौ प्रत्यये रकारानुबन्धो पुंवद्भावार्थः । ३१-तलप्रत्ययादौ लकारानुबन्धस्तदन्तस्य स्त्रीलिङ्गताख्यापनयेत्यर्थः । ३२-तिवादौ वकारानुबन्ध उत और्वितीत्यादौ विशेषणार्थः, शिदविदित्यादौ पर्युदामार्थश्चत्यपि ज्ञेयम् । ३३-डुक्रींगूश द्रव्यविनिमये इत्यादौ शकारानुबन्धो धातोः क्रयादिगण पाठसूचनार्थः अन्यत्र शिदविदित्यादौ विशेषणार्थश्चेत्यपि बोध्यम् । ३४-क्षमौषि सहने इत्यादौ षकारानुबन्धः पितोऽडित्यनेन स्त्रियामङ् प्रत्ययविधानार्थः, तेन क्षमा जरेत्यादि सिध्यतीत्यर्थः । ३५-ऊर्णाऽहंशुभमोयुसित्यादौ सकारानुबन्धो नाम सिदित्यादिना पद. संज्ञार्थः, तत्सामर्थ्याच्च यकारादित्वेऽपि ऊर्णायुरित्यादौ पदसंज्ञा सिध्यतीति बोध्यम् । अत्र सिद्धशब्दानुशासने ये न सन्त्यनुबन्धास्तेषां फलान्यपि नोक्तानि । एवं धातूनां प्रत्ययानां चानुबन्धफलमुक्तमित्याशयः ॥ १-धातुपाठे इह पाणिनीयेऽपि च धातूनुक्त्वाऽन्ते अवान्तरगणपाठे 'वृत्' शब्दो गगपाठसमाप्तिसूचक उच्यते । स इह वृत्गणशब्देनेष्ट इति बोध्यम् । तत्र द्युतादिगणफलं द्युतादेरद्यतन्यामित्यादिना विकल्पेनात्मनेपदमद्यतन्यां परस्मैपदे लदिभुतादीत्यादिना अङ् चेत्याशयः ॥२॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy