________________
५८६ हैमनूतनलधुमक्रिया
आत्मने गुणरोधे श्चो दिवादिगणो भवेत् ।
ओ वृद्धौ वर्तमाने क्तः टैः स्वादिङन्युपकारकः ॥५॥ त्रिमगोंडकारः स्याण णश्चुरादिश्च वृद्धिकृत् । तैस्तुदादौ नकारश्चेचाऽपुंसीति विशेषणे ।।७।। ... रुधादौ वागमे पो हि मो दामः सम्प्रदानके । येस्तनादे रकारः स्यात् वद्भावार्थवचकः ॥८॥ घनादौ घकारानुबन्ध श्चजोः तेऽनिट इत्यादिना पाको राग इत्यादौ कगविधानार्थम् । कृताविति विषयसप्तमी निमित्तसप्तमी वा । १९-ङकारानुबन्ध आत्मने पदार्थो गुणाभावार्थश्च । स्वदर्थोऽपि उपलक्षणत्वाद् बोध्यम् । २०-चकारानुबन्धो दिवूच क्रीडादावित्यादौ धातोर्दिवादिगणपाठसूचनार्थः । २१-अिधषा प्रागल्भ्ये इत्यादौ प्रकारानुबन्धो ज्ञानेच्छेत्यादिना वर्तमाने क्तविधानार्थ इत्यर्थः। घनादौ पाक इत्यादौ बुद्धयर्थश्च । २२-टकारानुबन्धो धातौ धुंगट अभिषवे इत्यादौ स्वादिगणपाठसूचनार्थः, प्रत्यये चरेष्ट इत्यादौ टकारानुबन्धः स्त्रियां ड्यर्थ इत्यर्थः । २३डुपची पाके इत्यादौ धातुपाठे डुकारानुबन्धः पवित्रममित्यादौ डिवतस्त्रिमगिति त्रिमा प्रत्ययार्थः, डकागनुबन्धस्तु अन्यत्रान्त्यस्वरादिलोपार्थ इत्यपि बोध्यम् । २४-चुरण स्तेये इत्यादौ धातो णकारानुक्धाचुरादिगणपाठबोधार्थः, प्रत्ययेऽन्यत्र वृद्धिविध नार्थः । २५-तुदीत् व्यथने इत्यादौ धातौ तकारानुबन्धो धातोस्तुदादिगणपाठसूचनार्थ इत्याशयः । २६-कन् प्रत्यये नकारानुबन्धोऽनित्क्याप्यरे इति विशेषगांशे कनः पर्युदासार्थ इत्यर्थः । २७-रुधूपी आवरणे इत्यादौ पकारानुबन्धो रुधादिगणपाठ बोधार्थः । अन्यत्र कल्पबादौ प्रत्यये तु पुंवद्भावार्थः । ना पुरुषस्तदागमो नागमः, पुंवद्भाव इत्याशयः । २८-दाम् धातौ मकारानुबन्धो दाम्धातुप्रयोगेऽशिष्टव्यवहारे सम्प्रदानसंज्ञार्थ इत्यर्थः । २९तनूयी विस्तारे इत्यादौ यकारानुबन्धो धातोस्तनादिगणपाठबोधार्थः। ३०