SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ५८५ लकारादङ् समायोत्येः सिचि वृद्धि निषेधकः । ऐसतैयौरिण निषेधः स्यादोसक्तयोस्तस्य नो भवेत् ॥३॥ औकार इड्विकल्पार्थेऽर्नुस्वारोऽनिट् विशेषणे । लकारश्च विसर्गश्चानुबन्धौ भवतो न हि ॥४॥ कोउँदादि नै गुणी प्रोक्तः खे पूर्वय मुमागमः । गेनोभैयपदी प्रोक्तो धैश्च चजोः कगौ कृतौ ८-गम्लं गतावित्यादौ लुकारानुबन्धाद् लदिद्युतादीत्यादिना अङ् प्रत्ययो भवति । ९-पथे गतावित्यादावकारानुबन्धो न श्विजागृ इत्यादिना सिचि वृद्धयभावार्थमित्यर्थः । १०-ओलस्जैत् इत्यादौ ऐकारानुबन्धो लग्न इत्यादौ डीयश्व्यैदित इत्यादिना इडभावार्थ इत्यर्थः। ११-ओलस्जैत् इत्यादावोकारानुबन्धश्च तक्तवत्वोस्तकारस्य सूयत्याद्योदित इति नकारादेशार्थ इत्यर्थः । १२-गुहोग संवरणे इत्यादौ औकारानुबन्धो धूगौदित इतीड्-विकल्यार्थ इत्यर्थः । १३-जिनिं अभिभवे इत्यादौ अनुस्वारानुचन्ध एकस्वरादित्यादिनेग्निषेधार्थ इत्यर्थः। १४-टुकारो विसर्गश्च क्वा'प्यनुबन्धो न भवतीत्यर्थः । १५-अदंक प्सांक् भक्षणे इत्यादौ ककारानुबन्धस्तस्यादादिगणपाटबोधकः । तथा क्त्वाप्रत्ययादौ ककारानुबन्धस्तस्मिन् परे गुणाभावार्थः, नामिन इत्यादिना अक्छिति प्रत्यये गुणविधानात् । वृदादिकार्थमपि कित्त्वप्रयोजनं बोध्यम् । १६-प्रत्यये खशादौ खकारानुबन्धः पूर्वपदस्य खित्यनम्ययेत्यादिना मोन्तार्थः, पाणिनीये मोन्तो मुम्शब्देन विधीयते इति मुमागम इत्युक्तं बोध्यम् । १७-गुहौगिल्यादौ गकारानुबन्धस्तस्य ईगित इत्यनेनोभयपदार्थ इत्यर्थः । १८
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy