SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५८४ हैमलघुनूतनप्रक्रिया न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः। नीयते गौर्द्विजो ग्रामं भारो ग्राममथोद्यते ॥१८॥ . गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽर्थ गुरुणोच्यते ॥१९॥ ॥ अथानुबन्धप्रयोजनम् ॥ उच्चारणेऽस्त्यकारोऽन्ते आंसूक्तयो रिण निषेधने । .इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥१॥ उदितः स्वरानोऽन्तथोक्त्वादाविटो विकल्पने । उपान्त्ये उ परेऽहस्व ऋवर्णश्वाऽविकल्पकः ॥२॥ नीहृकृष् वह-एषां धातूनां कर्मणि प्रत्यये सति मुख्यं कर्मोक्तमिति ततः प्रथमा विभक्तिः, गौणं. कर्मानुक्तमिति ततो द्वितीयैव । तत्रोदाहरणमाह-नीयते इत्यादि । सुगमम् । यदर्थ क्रिया ऽऽरभ्यते तन्मुख्यं कर्मान्यद् गौणमिति बोध्यम् ॥१८॥१९॥ १-व्रजगतावित्यादौं धातुपाठेऽन्त्योऽकार उच्चारणार्थ इत्यर्थः । २-निविदा इत्यादिधातौ आकारोऽनुबन्धः क्ते क्तवतो च आदितश्चेतीनिषेधार्थ इत्यर्थः । ३-एपिं वृद्धावित्यादांविकासंनुबन्ध इङित इत्यात्मनेपदार्थमित्यर्थः । ४-वहीं प्रापणे इत्यादावीकारानुबन्ध ईगित इत्युभयपदार्थ इत्यर्थः । ५-टुनदु संमृद्धावियादावुकारानुबन्ध उदितः स्वरान्नोन्त इति . नागमार्थ-इत्यर्थः । ६-शमू उपशमे इत्यादौ ऊकारानुबन्धः क्त्वादौ . उदितो वेतीविकल्पोर्थ इत्यर्थः । ७-ऋवर्ण इत्यनेन इस्वदीर्घयोरुभयोः संग्रहः । ततश्च राज़दीता वित्यादौ ऋकारानुबन्ध उपान्त्यस्याऽसमानलोप इत्यनेन हस्वाभावार्थमित्यर्थः । ऋकारानुबन्धश्र ऋदिच्छ्वि' इत्यादिना अङ् विकल्पार्थ इत्यर्थः । ...
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy