________________
हैमनूतनलघुप्रक्रिया नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारचे पाहवर्गस्तवर्गजः ॥८॥ उपसर्गेण धात्वर्थों बलादन्यत्र नीयते । विहाराहार संहार प्रहार प्रतिहारवत् ॥९॥ धात्थ बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१०॥
१-धातुषु धुटि अपञ्चमान्तस्थे वर्णे परतोऽनुस्वारपञ्चमौ नकारस्थाने जातौ बोध्यौ, यथा संस्ध्वंस् इत्यादौ । व्रश्चादौ चे चकारे शकारः सकारजः । ष्ठाप्रभृतिषु षकाराहवर्यस्तवर्गज इत्यर्थः । २-धातोरुपसर्गसम्बन्धे सति स उपसर्गः स्वसम्बन्धबलेन धातो निर्दिष्टादर्थादर्थान्तरं प्रतिपादयंतीत्यर्थः । उपसर्गसहितो धातुरन्यार्थवृत्तिरपि भवति न तु सदाऽन्यार्थमेवाऽऽहेत्याशयः । तदेव प्रपञ्चयन्नाह धात्वर्थ बाधते इत्यादिना। अन्यार्थनयनोदाहरणान्याह-विहारेत्यादि । विहारो विलासो गमनं वा। हृधातुहरणेऽर्थे निर्दिष्टः, हरणं च प्रापणं स्वीकारो वा । विहारादौ चोपसर्गसम्बन्धवशादर्थान्तरं प्रतीयते । तदेतदुपसर्गकृत्यम् । ३-उपसर्गकृत्यप्रपञ्चमाह-धात्वर्थमित्यादि । आहारादौ प्रापणाद्यर्थबाधेन भोजनार्थप्रतीतिः । सिध्यति निषिध्यतीत्यादौ च न्युपसर्गबलाद् धात्वर्थबाधेन निषेधप्रतीतिः, एवमन्यत्रापि स्वयमूह्यम् । अनुवर्तत इति । हरति,
अपहरतीत्यादावुपसर्गो हरणमेवानुसरति, उपतिष्ठतीत्यादौ स्थितिमेवोपसर्गो विशेषयति सामीप्येन । अध्यागच्छतीत्यादावधिकार्थाप्रतीतेरभ्युपसर्गोऽनर्थकः, एवमन्यत्र ॥१०॥