SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ५८० हैमनूतनलघुप्रक्रिया निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । . तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२॥ ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्या तु सर्वतः ॥३॥ अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युत च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥४॥ ऑकृतिग्रहणा जाति लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह ॥५॥ सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते । आधेयचाऽक्रियाजश्च सोऽसत्त्वप्रकृति गुणः ॥६॥ इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥७॥ २-एकं. फलमित्यादौ फलगतमेकत्वमेवैकशब्दस्याऽर्थः, तादृशैकत्वे नामार्थ एव विभक्तिः, " आदशभ्यः संख्या संख्येये" इति नियमाद् । एवं चैकादिशब्दानामेकत्वादिमति निरूढलक्षणैव । एकादिशब्दानां संख्या. । र्थकत्वे एकत्वत्वादिकमेव नामार्थः स्यात् , तादृशस्वार्थ एव विभक्त्यर्थः स्यादित्येकं फलमित्यादावभेदाभावात्तयोरमेदान्वयो न स्याद्, द्रव्यगुणयोर्भेदादिति भावः ॥२॥ ३-उच्चैस्वमित्यर्थः । परिमाणं सर्वतो मानं प्रस्थखार्यादिरूपमित्यर्थः। आयामो दैर्ध्यम् । बाह्या बहिरङ्गपरिमाणम् । ४-स्त्रीप्रत्ययप्रकरणे व्याख्यातमिति तद् द्रष्टव्यम् । ५-एतदपि व्याख्यातमेव । ६-स्वरादुत इति सूत्रे व्याख्यातमेतत् । ७-इदं शब्दस्य सन्निकृष्टः समीर्थो वाच्यत्वेनः विप्रमः इदम् फलमिति यथा:। अङ्गुल्या निर्देश्योऽर्थः, इति: यावत् । एतच्छब्दस्य. तु समीपतरवत्ति हस्तगतादि वस्तु वाच्यम्.। अदस् शब्दस्य दूरवर्ति वस्तु वाच्यम् । तच्छन्दस्य च परोक्षोऽर्थो वाच्यः इत्याशयः ।।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy