________________
५७९
हैमनूतनलघुप्रक्रिया अमित्यादौ कण्ठययोरकारयोः स्थाने स्थानत आसन्नः कण्ठय एवाऽऽकारो भवति नेकारादिः । एवमन्यत्रापि बोध्यम् ।
केचन शास्त्रे सूचिता लोकसिद्धाश्च न्यायाः। यथा-स्त्रं रूपं शब्दस्याशब्दसंज्ञा । स्वरस्य इस्वदीर्घप्लुताः । आद्यन्तवदेकस्मिन् । एकदेशविकृतमनन्यवत् । यथासंख्यमनुदेशः समानाम् । विवक्षातः कारकाणि । अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् । लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव । नामग्रहणे लिङ्गविशिष्टस्यापि । तिवा शवाऽनुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥१॥ संनिपातलक्षणो रिधिरनिमित्तं तद्विघातस्य । असिद्धं बहिरङ्गमन्तरङ्गे। गौणमुख्ययोः मुख्ये कार्यसंप्रत्ययः । सिद्धे सत्यारम्भो नियमार्थः । उक्तार्थानामप्रयोगः । निमित्ताभावे नैमित्तकस्याऽप्यभावः । येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति । उपपदविभक्तेः कारकविभक्तिबलीयसी । परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः । एवमन्येऽपि न्यायाः प्रक्रियासिद्धये आश्रिताः, ते चाकरतोऽवगन्तव्याः ॥
। उपयोगिश्लोकाः ।। 'संहितैकपदे नित्या नित्या धातूपसर्गयोः। ........
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ १-पदानामविलम्बेनोच्चारणं संहिता । अर्धमात्राधिककालाऽव्यवधानमित्यर्थः ।