________________
५७८
हैमनूत लघु प्रक्रिया
सिध्यति । अल्पस्य भोगीन इत्येतस्य पदत्वे तु पदद्वयं स्यादित्येक पदाभावाण्णत्वं न स्यादिति बोध्यम् ।
कृत्सगतिकारकस्यापि |७|४|११७ ॥ कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य केवलस्य च विशेपणं भयति । तेन यथा नखैर्भिन्नो नखभिन्न इत्यत्र भिन्न इत्यस्य कृदन्ततया कारकं कृतेति समासस्तथा नखैर्निभिन्नो नखनिर्भिन्न इत्यत्र निर्भिन्नेत्यस्य गतिपूर्वकस्यापि कृदन्ततया तेन समासः सिध्यति । अन्यथा प्रत्ययः प्रकृत्या - देरिति भिन्नेत्यस्यैव कृदन्तत्वं स्यान्न निर्भिन्नेत्यस्येति समासो न स्यात् । एवमन्यत्राऽप्यूह्यम् ।
परः | ७|४|११८ ॥ प्रत्ययः प्रकृतेः पर एव भवति । वृक्षः, अजा, जुगुप्सते, कार्यम्, औपगवम्, इत्यादि ।
स्पर्धे |७|४|११९ ॥ द्वयो विंध्योरन्यत्र सावकाशयो- स्तुल्यबलयोरेकत्राऽनेकत्र च समावेशः स्पर्धः, तत्र यः सूत्रपाठे परः स विधि र्भवति । यथा - शसोऽतेत्यस्यावकाशो वृक्षानित्यादौ, नपुंसकस्य शिरित्यस्यावकाशो यशांसीत्यादौ, चनानीत्यादौ चोभयं प्राप्नोति । तत्र परत्वाच्छिरेव भवति ।
आसन्न |७|४|१२० ॥ आसन्नानासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाण गुणैरासन्न एव विधि र्भवति । यथा दण्डा