SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ हैमलघुनूतनप्रक्रिया ५७७. विशेषणमन्तः | ७|४|११३ || विशेषणं विशेष्यस्या--- ऽन्तोऽवयवो भवति । अतः स्यमोऽम् । । अत्रात इति नाम्नो विशेषणं नाम्नोऽन्तोऽवयवो भवति । ततश्चादन्तानाम्न इत्यर्थो लभ्यते । तेन कुण्डं तिष्ठतीत्यादौ सेरम् सिध्यति । एतत्परिभाषाऽभावे तु अकारान्नाम्न इत्यर्थे कुण्डेति समुदायस्य अकाररूपत्वाभावात्सेरम् न स्यात् । तदित्यादौ च नाम्नोऽकारान्तत्वाभावात्सेरम् न भवति । सप्तम्याः आदिः ७।४ । ११४ सप्तम्यन्तस्य विशेष्यस्य यद्विशेषणं तत्तस्यादिरवयवो भवति । इन्ङीस्वरे लुगित्यादौ स्यादेरनुवृत्तस्य स्वरआदिवयवो भवति, ततश्च स्वरादौ स्यादावित्यर्थलाभात्पथ इत्यादाविनो लुग् भवति । अन्यथा तु स्वरे स्यादावित्यर्थे पथ इत्यादौ यस्स्यादिः असिति स न स्वरो यश्व स्वरोऽकारः स न स्यादिरिति निमित्ताभावाल्लुग् न स्यात् । एवमन्यत्राप्यूह्यम् । प्रत्ययः प्रकृत्यादेः | ७|४|११५ ।। प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं नोनाधिकस्य । मातुर्भीगो मातृभोग स्तस्मै हितो मातृभोगीणः । अत्र मातृभोगीणशब्दात् सिर्न भोगीनमात्रादिति तदन्तं पदमिति पदसंज्ञा मातृभोगीन इति समुदायस्य स्याद्यन्ततया पदत्वादेकपदभावाणत्वं १- भोगो तरेलीनः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy