SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५७६ हैमनूतनलघुप्रक्रिया स्थानिवत्वनिषेधात्स भवति । शंशाम शंशाममित्यत्र शाम्यतेयंङन्ताणिगि ख्णमि अलोपो यलोपश्च घटादेरिति दोघंविधौ कर्तव्ये न स्थानिवदिति स भवति । लुप्यरवृल्लेनत् ।७।४।११२॥ परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्य न भवति वृल्लत्वमेनच्च वर्जयित्वा । तद । अत्र से लुपः स्थानिवत्वप्रतिषेधात् त्यदायत्वादि न भवति । राजेत्यादौ तु से लुक् न तु लुबिति स्थानिवद् भावेन दीर्घत्वादि भवत्येव । पय इत्यादौ स्थानिवद्भावेन पदत्वात्वादि भवत्येव । रुत्वादिकं हि पदकार्यमिति समुदायकार्य न परनिमित्तकं पूर्वकार्यमिति भवत्येव । "वेविद्धीत्यादौ यङ्लुपः स्थानिवद्भावेन ङिति यवृत् , ततो द्वित्वादि । निनांगलीतीत्यादौ यङ्लुपः स्थानिवत्त्वेन लविधानम् । एनत्पश्येत्यादौ अमो लुपः स्थानिवत्वेन एनदादेशो भवत्येव पर्युदासबलादिति बोध्यम् । ३-शमेर्यङि द्वित्वादि, मुरत इति म्वागमः, तौ मुम इत्यनुस्वारः । णिगि अत इत्यलोपः, योऽशितीति यकारलोपः घटादेरिति ख्णम्परे णौ वा दीर्घः । ४-अनतोलुप् । ५-व्यधेर्यङ्लपि स्थानिवद्भावेन ङिति वृत् , ततो द्वित्वे. पूर्वस्य गुणे हे धिः, तृतीय इति तृतीयः । ६-न्युपसर्गाद् गृ धातोर्यङलुपि स्थानिवत्त्वेन द्वित्वे हृस्वत्वे, ऋतोऽ. दित्यत्वे आगुणेत्यात्वे तिवि यत्वितीदागमे, नामिन इति गुणे स्थानिवद्भावेन यङि यो यङोति लः । ७-इदमोऽमोऽनतो लुबिति लुपि स्थानिवद्भावेनेदम इत्येनत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy