________________
५७५
हैमनूतनलघुक्रिप्रया ।७।४।१११॥ सन्धिविधौ, डीविधौ, यविधौ, विविधौ,. द्वयोदित्वस्य विधौ, दीर्घविधौ, संयोगस्यादाविति स्क. लुग्वजितेऽसद्विधौ च स्वरस्यादेशः स्थानिवन्न भवति । अपैयन्तीत्यादाविणो हिणोरिति यत्वं परनिमित्तकः स्वरस्यादेशः पूर्वविधौ एत्वे सन्धिविधौ कर्तव्ये स्थानिवन्न भवति । निमित्तापेक्षयाऽपि पूर्वविधिरिष्यते । तेन नयनमित्यादावनटि नामिन इति गुणस्य स्थानिवद्भावप्रतिषेधादयाद्यादेशाः सन्धिविधयः सिध्यन्ति । बिम्ब्याः फलं बिम्बमित्यादौ हेमादित्वादनि “फले" इति लुपि ङ्यादेगौणस्येति ङीलुकि तस्य स्थानिभावप्रतिषेधाद् अस्य ड्यामि' ति ड्यामकारस्य लुग्विधिन भवति ।
वोः प्वयव्यचने लुक् ।४।४।१२२॥ प्वागमे परतः यकाररहितव्यञ्जनादौ प्रत्यये च परे यकारवकारयो ढुंग भवति । कण्डूतिरित्यादौ “य्वोः प्वयि" ति यलोपविधौ क्तावत इत्यकारलोपो न स्थानिबदिति स भवति । यविधि-. रिति यलोपरूपो विधिः। दीव्यते णिगि विपि णिलोप ऊटि विबिधौ कर्तव्ये च स्थानिवदिति स भवतीति दयूरिति सिध्यति । दद्ध्यत्रेत्यत्र द्वित्वैविधौ यादेशस्य २-अपोपसर्गादिण धातोरन्ति प्रत्यये ह्विणोरिति यादेशः । ३-कण्ड्वादियगन्तात्कण्डूय धातोः स्त्रियां क्तावत इत्यलोपे यलोपः । १-णेरनिटीति णिलोपः, अनुनासिके चेयूट् । अयादेशे स्यादिकार्ये दयूरिति । २-इवर्णादेरिति यः, अदीर्घादिति द्वित्वम् , तृतीय इति: तृतीयः ।। स्थानिवत्त्वे हि एकव्यञ्जनपरत्वाभावात् द्वित्त्वं न स्यात् ।