SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५७४ हैमनूतनलघुप्रक्रिया व्ययमिति अध्ययस्येति स्यादिलुब्भवति । पदादेश: पदवदिति युष्मानित्यादेशस्य वसः पदत्वाद् रुत्वादि । अवर्णविधावित्यत्र वर्णाश्रयो विधिः वर्णविधिः स प्रतिषिध्यते । स मयूरव्यंसकादिसमासः। ततश्च वर्णात्परस्य, वणे परतः, वर्णस्य स्थाने, वर्णेन अप्रधानवर्णाश्रयो वा विधिः वर्णविधिरिति सर्वत्र अवर्णविधाविति स्थानिवत्त्वं प्रतिषिध्यते । तेन-द्यौरित्यादावौत्त्वादौ कृते स्थानिवद्भावेन व्यञ्जनात्परत्वात् से लौंपः प्राप्तो वर्णाश्रयत्वात् स्थानिवत्त्वनिषेधान्न भवति । एवमन्यत्रापि बोध्यम् । स्ताद्यशित इत्यादौ अशितः प्राधान्यात्स्तोरप्राधान्यमित्यप्रधानवर्णाश्रयतयेटि कर्त्तव्ये क्त्वागततादित्वस्य स्थानिवत्वं न भवति तेन प्रदीव्य प्रपठये त्यादौ नेट् । एवमन्यत्रापि । स्वरस्य परे प्राग्विधौ ।७।४।११०॥ स्वरस्यादेशः परनिमित्तको व्यवहितेऽव्यवहिते वा स्थानिस्वरात्पूर्वस्य विधौ कर्त्तव्ये स्थानिवद् भवति । कथयतीत्यादौ, अशिनिमित्तकस्यात इत्यकारलोपस्य स्थानिवद्भावादकारात्पूर्वस्य उपान्त्याऽकारस्य णितीति वृद्धिर्न भवति । एवमन्यत्र । वर्णविध्यर्थ सूत्रम् । न सन्धिङीयक्विद्विदीर्घासद्विधावस्कलुकि १-कथ इत्यदन्ताद् धातोर्णी अत इत्यकारलोपे त्यादौ शवि गुणेऽयादेशः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy