SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५७२ हैमनूतनलघुप्रक्रिया अनेन परिभाषासूत्रेण परस्यैवेति नियम्यते । तेन हरेऽवेत्यादौ पञ्चमीनिर्दिष्टादेकारादव्यवहितस्य परस्य अवेत्याद्याकारस्य स्थाने लुग् भवतीति बोध्यम् । एवमन्यत्राऽप्युह्यम् । सप्तम्या पूर्वस्य ।७।४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्याऽनन्तरस्य स्थाने भवति । 'इवर्णादेरस्वे स्वरे' इत्यत्र स्वरे इति सप्तम्या निर्देशः, ततो दध्यत्रेत्यादौ अकारादव्यवहितपूर्वस्यैवेकारस्य यादेशः, मुन्युपासनेत्यादौ परस्य स्वरस्य समिदत्रेत्यादौ व्यवधाने च न व्यादेशौ। . षष्ठयाऽन्त्यस्य ।७।४।१०६॥ षष्ठया निर्दिष्टे यत्कायमुच्यते तत्षष्ठीनिर्दिष्टस्य योऽन्त्यो वर्णस्तस्यैव स्थाने भवति न समस्तस्य । यथा-'वाऽष्टन आः स्यादौ' इत्यत्राएन इति षष्ठयानिर्देश इति तदन्तस्य नकारस्य स्थाने आत्वं भवति । अष्टाभिः, अष्टासु । ___अनेकवर्ण : सर्वस्य ।७।४।१०७॥ अनेकवर्ण आदेशः षष्ठीनिर्दिष्टस्य सर्वस्यैव स्थाने भवति । यथा-अनेकवौँ तिसृचतस्रादेशौ-"त्रिचतुरः" इति षष्ठीनिर्दिष्टयोः सर्वयोरेव त्रिचतुरोः स्थाने भवतः ।। तिस्रः, चतस्रः ॥ 'निर्दिश्यमान स्यादेशा' इति 'ऋतां विडतीर्' इतीरादेशः किरतीत्यादौ निर्दिश्यमानस्य ऋकारस्यैव स्थाने भवति न ऋकारान्तस्य । षष्ठीप्रकृत्या यस्य प्रथममुपस्थितिः स निर्दिश्यमान इति बोध्यम् ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy