SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५७१ हैमनूतनलघुप्रक्रिया पदस्य सम्बन्धी गुरुर्वाऽनन्त्योऽपि ऋकारवर्जितः स्वरः लकारश्चैको दूरादामन्यस्यैव सम्बन्धी स प्लुतो वा भवति । आगच्छ चैत्र ३। आगच्छ चैत्र ! । आगच्छ क्लृप्तशिख ३, आगच्छ क्लुप्तशिख ! आगच्छ क्ल३प्त शिख !। आगच्छ३ इन्द्रभूते !, आगच्छ इन्द्रभू३ते !, आगच्छ इन्द्रभूते ! एकग्रहणादनेकस्य योगपद्येन न भवति । आगच्छ नृ३षभ! आगच्छ नृषभ !। ऋतो निषेधे लुतो न निषेध इति लुग्रहणं व्यर्थ सज्ज्ञापयति । ऋवर्णग्रहणे लुवर्णस्याऽपि ग्रहणम् । तेनाऽचीक्लपदित्यादौ ऋवर्णस्येति लुवर्णस्य लुत्सिध्यतीति बोध्यम् । हेहैष्वेषामेव ।७।४।१००॥ दुरादामन्त्र्यस्य सम्बन्धिनौ यौ हे है शब्दो तयो वाक्ये यत्रतत्रस्थयोरेवान्त्यः स्वरः प्लुतो वा भवति । हे ३ देवदत्त ! आगच्छ । एवं मध्येऽन्तेऽपि । एवं हैशब्देऽपि बोध्यम् । ॥ इति द्वित्वप्लुतप्रक्रिया ।। ॥ अथ परिभाषाप्रक्रिया ॥ पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४॥ पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य अव्यवहितस्य स्थाने भवति । एदोतः पदान्तेऽस्य लुगित्यत्र एदोत इति दिक्शब्दाध्याहारेण तदयोगे पञ्चमी । ततश्च पूर्वपरयोरुभयोरेव प्राप्तौ
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy