SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया स्थाने स्वरादौस्यादौ परे यथासंख्यं यकारवकारादेशौ भवतः। सेनान्यौ, सेनान्यः । सेनान्यम् , सेनान्या । सेनान्याम् , सेनानीषु । हे सेनानीः। एवं ग्रामण्यादयः । सुधीशब्दो नीशब्दवत् । मुलूः । सुल्लि । शेषं सेनानीवत् । एवं खलपू -प्रभृतयः । इन्भूः। दृन्पुनर्वर्षाकारैर्भुवः ।२।११५९॥ दृन्-पुनर्-वर्षा-कार-एतत्पूर्वस्य विबन्तभूधातोरुवर्णस्य स्थाने स्वरादौ स्यादौ परे वकारादेशो भवति । दृन्भ्वौ । दृधि । शेष सेनानीवत् । पुनर्भूः । वर्षाभूः । शेषं इन्भूवत् । एतत्पूर्वस्यैव भूधातोः विवन्तस्य वो नाऽन्यस्य, तेनेह न- स्वयम्भुवौ । शेषं लूवत् । यवक्रीः ॥ संयोगात् ।२।११५२॥ धातुसम्बन्धिन इव!स्योवर्णस्य च धातुसम्बन्धिन एव संयोगात्परस्य स्थाने स्वरादौ प्रत्यये परे इयुवादेशौ भवतः । खोरपवादः। यत्रक्रियौ । यवक्रियि । शेषं नीवत् । एवं कटघू-प्रभृतयः । उनी । उन्न्यः । उन्याम् । मुश्रीः॥ वेयुवोऽस्त्रियाः।१।४।३०॥ इयुयोः स्थानिनौ स्त्रीशब्दवजितौ यो नित्यस्त्रीदतौ तदन्तात्परेषां स्यादिडितां स्थाने १-निय आमिति डेराम् । २-हिंसकः । ३-मण्डूकः । ४-धातुसम्बन्धिनः संयोगात्परत्वाभावान्नेयादेशः । ५-डेराम् । ६-शोभना श्रीर्यस्य सः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy