SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३८ हैमनूतनलघु प्रक्रिया सम्बन्धिन इति किम् ? प्रियत्रीणाम् । त्रिषु । कतिशब्दो नित्यं बहुवचनान्तः ॥ डतिष्णः संख्याया लुप् । १।३।५४ ॥ इतिप्रत्ययान्तायाः षकारान्ताया नकारान्तायाश्च संख्यायाः सम्बन्धिनोसोलुप भवति । कति कतिभिः, कतिभ्यः, कतीनाम्, कतिषु । स्वसम्बन्धिनोरेव तेनेह न । प्रियकेतयः, प्रियकतीन् । एवं यतिततिशब्दौ । नीः ॥ धातोरि वर्णोवर्णस्येयुव स्वरे प्रत्यये | २|१|४०|| धातुसम्बन्धिनइवर्णस्योवर्णस्य च स्थाने स्वरादौ प्रत्यये परे यथासंख्यमिय् उव् इत्यादेशौ भवतः । नियौ,' नियः । नियम्, नियः । निया, नीभ्याम् नीभिः । निये नीभ्यः । नियः, नियोः, नियाम् ॥ निय आम् | २|४|५१ || नियः परस्य ङे: स्थाने आमित्यादेशो भवति । नियाम्, नीषु, हें नीः । लूशब्दो नीशब्दवत् । सेनानीः ॥ क्विवृत्तेरसुधियस्तौ | २|१|५८ || क्विवन्तेनैव यः सुधीशब्दवर्जितः समासस्तत्सम्बन्धिनो धातोरिवर्णो वर्णस्य १ - अत्र हि प्रियकतिसम्बन्धिनौ जस् शसौ न तु कतिशब्दसम्बन्धिनाविति लग् न भवति । २-अत्र नामत्वात्स्यादयः, धातुत्वाच्चेयादयः, एवमन्यत्रापि बोध्यम् । " क्विवन्ता धातुत्वं नोज्झन्ति नामत्वं च प्रतिपद्यन्ते" इति सिद्धान्तात् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy