________________
३७
हैमनूतनलघुप्रक्रिया भवति । सख्या, सख्ये । केवलेति किम् ? सुसखिना । सुसखये ॥
खितिखीतीय उर । १।४।३६॥ खि-ति-खी-तीएतत्सम्बन्धिन इवर्णस्थानाद् यकारात्परयोः ङसिङसोः स्थाने उरादेशो भवति । सख्युः । सुसखे ॥
केवलसखिपतेरौः। १।४।२६॥ केवलाभ्यां सखिपतिभ्यामिदन्ताभ्यां परस्य ः स्थाने औ इत्यादेशो भवति । सख्यौ । सुसखौ । शेष मुनिवत् । पत्या, पत्ये, पत्युः । पत्यौ । शेषं मुनिवत् । केवलेत्येव । मुनिपतिना, मुनिपतेः। मुनिपतौ । सर्व मुनिवदेव । द्विशब्दो नित्यं द्विवचनान्तः ॥
आदेरः । २।४।४१॥ द्विशब्दान्तं यावत् त्यदादी नाम: न्त्यस्य स्वसम्बन्धिनि स्यादौ तसादौ च परे अकारादेशो भवति । द्वौ, द्वाभ्याम् , द्वयोः । स्वसम्बन्धिनीति किम् ? प्रियद्विः । शेषं मुनिवत् । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः, त्रीन् , त्रिभिः, त्रिभ्यः॥
वेस्त्रयः । ॥४॥३४॥ आमः सम्बन्धिनस्त्रिशब्दस्य त्रयादेशो भबति ॥
अनेकवर्णः सर्वस्य । ७।४।१०७॥ अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टस्य सर्वस्य स्थाने भवति । त्रयाणाम् । आमः १-ङित्यदित्यस्य न ना ङिदेदिति निषेधे इवर्णादेरिति यादेशे पश्चादुर ।