________________
३६
मनूतन लघु प्रक्रिया
योऽन्त्यः स्वरस्तदादेः शब्दरूपस्य डिति परे लुग् भवति मुनौ मुनिषु ॥
ह्रस्वस्य गुणः | १|४|४|१|| सम्बोधने वर्त्तमानस्थ ह्रस्वान्तस्य सिना सह गुणो भवति । हे मुने ! । एवं यतिकवि - रवि - प्रभृतेयः । साधुः, साधू, साधवः, साधुम्, साधून् । साधुना, साधुभ्याम् साधुभिः साधवे, साधुभ्यः । साधोः, साध्वोः । साधूनाम् । साधौ, साधुषु । हे साधो ! | शेषं मुनिवत् । एवं गुरु- भानुप्रभृतयः ॥
1
ऋदुशनस्पुरुदंशोऽनेहसश्च से र्डा | १|४|८४ | ऋकारान्ताद् उशनस्- पुरुदंशस् - अनेहस् इत्येतेभ्यः सख्युरिकारान्ताच्च परस्य शेषस्य सेः स्थाने डां इत्यादेशो भवति । सखा । सुखा ॥
सख्युरितोऽशावैत् | १|४ |८३ || सखिशब्दस्येकारान्तस्य शिवर्जिते शेषे घुटि परे ऐकारान्तादेशो भवति । सखायौ, सुसखायौ । सखायः । सखायम् । सखीन ॥
न ना विदेत् | १|४|२७|| केवलात्स खिशब्दात्पतिशब्दाच्च परस्य टाविभक्तेर्नादेशः, डिति परे एकारश्च न १ - अत्र अतिस्त्रिशब्दमप्युदाहरन्ति तन्नातीवोपयोगीत्युपेक्षितं बोध्यमिह । २- डित्यन्त्येतीकारलोपः । ३ - सर्वत्र इदन्तसखिशब्दान्ताडादेशः । एवमैदादेशोऽपि ।