________________
हैमनूतनलघुप्रक्रिया स्योदन्तस्य च औता सह यथासंख्यमीत् ऊत् इत्यादैशौ भवतः । मुनी ॥
जस्येदोत् । ११४॥२२॥ इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेत् ओत् इत्यादेशौ भवतः। मुनयः। मुनिम् , मुनीन् ॥
टः पुंसि ना। १।४।२४॥ इदन्तादुदन्ताच्च परस्य तृतीयैकवचनस्य टा इत्यस्य स्थाने पुंलिङ्गे ना इत्यादेशो भवति । मुनिना, मुनिभ्याम् , मुनिभिः ॥
डित्यदिति । ११४।२३॥ अदिति ङिति स्यादौ परे इदन्तस्योदन्तस्य च क्रमेण एत् ओत् इत्यादेशौ भवतः। मुनये । मुनिभ्यः ॥
एदोदा सिङसो रः। १।४।३५॥ एत् ओत् इत्याभ्यां परयोङसिङसोः स्थाने रेफादेशो भवति । सूत्रे रइत्यकार उच्चारणार्थः । मुनेः । मुन्योः मुनीनाम् । ___ङि डौ । १।४।२५॥ इदन्तादुदन्ताच्च परो ङिः ङौभवति ॥
डित्यन्त्यस्वरादेः।२।१।१४॥ सभिविष्टानां स्वराणां १-यस्य दै इत्याद्यादेशो न भवति तस्मिन् ङिति ङे ङसि डस् ङिस्वरूपे स्यादावित्यर्थः । २-प्रत्ययस्येति सर्वस्यादेशः। ३-तदन्तं पदमिति पदत्वे रुत्वे रः पदान्त इति विसर्गः।।