________________
हैमनूतनलघुप्रक्रिया पूर्वप्रथमावन्यतोऽतिशये ७४७७॥ पूर्वशब्दः प्रथमशब्दश्च तदर्थस्याऽन्येभ्यः प्रकर्षे द्योत्ये द्विरुच्यते । पूर्व पूर्व पुष्यन्ति, प्रथमं प्रथमं पच्यन्ते । अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः। ___सामीप्येऽधोऽध्युपरि १७४४७९॥ अधस् अधि उपरि इत्येतानि शब्दरूपाणि सामीप्ये विवक्षिते द्विरुच्यन्ते । सामीप्यं देशकृता-कालकृता वा प्रत्यासत्तिः। अधोऽधोऽध्युध्युपर्युपरि वा ग्रामम् । ____द्वन्दं वा ७४४८२॥ वीप्सायां द्विरुक्तस्य द्विशशब्दस्यादौ स्यादेः प्लुप् इकारस्याऽम्भावः, उत्तरत्रेकारस्याऽत्वं स्यादेश्वाऽम्भावो वा निपात्यते । द्वन्द्वं तिष्ठतः, द्वो द्वौ तिष्ठतः। द्वन्द्वं द्वयो ईयो वा स्थितम् । एवं रहस्यादावपि द्वन्द्वशब्दो निपात्यते । द्वन्द्वं मन्त्रयन्ते, रहस्यमित्यर्थः। भेदे-द्वन्द्वं व्युत्क्रान्ताः। द्वैराश्येन भिन्ना इत्यर्थः। अत्र व्युत्क्रान्तिर्भेदः । समासे कलहे पुलिङ्गो, युद्धयुग्मदुःखेषु क्लीबं द्वन्द्वशब्दोऽन्य एवेति बोध्यम् ।
सम्मत्यसूयाकोपकुत्सनेष्वाद्यामन्यमादौ स्वरेज्वन्त्यश्च प्लुतः ७।४।८९॥ कार्येष्वाभिमत्यं पूजनं १-द्वित्वेऽध इति द्वितीया । २-तौ मुम इति स्वानुनासिकः ।