________________
हैमनूत लघुप्रक्रिया
,
|
॥ अथ द्वित्व- प्लुत-प्रक्रिया ॥ असकृत्सम्भ्रमे 19|४|७२ || भयादिभिश्चित्तव्याक्षेपात्प्रयोक्तुस्त्वरणं संभ्रमः तस्मिन् द्योत्ये यत्प्रवर्त्तते पदं वाक्यं वा तदनेकवारं प्रयुज्यते । अहिरहि:, बुध्यस्व बुध्यस्व | अहिरहिरहि:, बुध्यस्व बुध्यस्व बुध्यस्व । हस्त्यागच्छति, हस्त्यागच्छति, लघु पलायध्वम् लघु पलायध्वम् । भृशार्थादौ द्वित्वं यथा । भोजं भोजं व्रजति भुक्वा भुक्त्वा व्रजति । पचति पचति । क्रियाविशेषणस्यापि, वारं वारं पचति । मुहुर्मुहुः पश्यति, शनैः शनैर्गच्छति, मन्दं मन्दं तुदतीत्यादि ।
५६८
4
नानाऽवधारणे | ७|४|७४ || नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् । तस्मिन् यच्छब्दरूपं वर्त्तते तद् द्विरुच्यते । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि । प्रत्येकं माषमात्रं देहि नाधिकमित्यर्थः ।
आधिक्यानुपूर्ये ७४/७५ || आधिवयं प्रकर्षः, आनुपूर्व्य क्रमानुल्लङ्घनम् । एतयोर्यच्छन्दरूपं वर्तते तद् द्विरुच्यते । नमोनमः । अधिकं नम इत्यर्थः । मूले मूले स्थूलाः अग्रे अग्रे सूक्ष्माः । मूलाद्यानुपूर्येण स्थौल्यादिरित्यर्थः ।