SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ५६७ निति वा सन्तमसम् । अन्धयतीत्यन्धम् , अन्धं तमः अन्धं तमोऽस्मिन्निति वा अन्धतमसम् । अन्धं च तमश्चे. त्यन्धतमसम् । अन्र्धतमसे वा। प्रत्यन्ववात्सामलोम्नः ७।३।८२॥ प्रति अनु अव इत्येतेभ्यः परौ यौ सामन् लोमन् शब्दौ तदन्तासमासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम् । प्रतिगतं सामास्य प्रतिसामः। एवं प्रतिलोम प्रतिलोम इत्यादि । वीप्सादावव्ययीभावे तु परत्वादनपुंसकाद्वेति विकल्पो बोध्यः। ____ अक्षणोरप्राण्यङ्गे ७।३।८५॥ अक्षिशब्दान्तात् समासादत्समासान्तो भवति न चेत्सोऽक्षिशब्दः प्राण्यङ्गे वर्तते । गवामक्षीव । गवाक्षः, रुद्राक्षम् । संकटाभ्याम् १७३।८६॥ सं-कट इत्येतत्पूर्वादक्षिशब्दान्तात्समासादत्समासान्तो भवति । संगतमक्ष्णा, समीपमैक्ष्णो वा समक्षम् । कटस्याऽक्षि कटाक्षः। -प्राण्यङ्गार्थ आरम्भः। ॥ इति समासान्तप्रक्रिया ॥ ६-तौ मुम इति स्वानुनासिकः । ७-समाहार द्वन्द्वः, स्वराद्यन्तः प्राक् । ८-इतरेतरयोगः द्वन्द्वः, परपदलिङ्गम् । ९-प्रथमान्तेन द्वितीयान्तेन वा प्रादितत्पुरुषः । नोपदस्येत्यनो लुक् । १० अवर्गेवर्णस्येतीकारलोपः, गोर्नाम्नीत्यवादेशः, समानदीर्घः । १.१-तृतीयान्तेन पादितत्पुरुषः, सम् सि अक्षि टा । १२-सामीप्येऽव्ययीभावः ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy