________________
हैमनूतनलघुप्रक्रिया शः। शबानां शयनं श्मशानम्। पूर्वपदस्य श्मादेश उत्तरपदस्य च शानादेशः । शकस्याऽन्धुः शकन्धुः। कर्कस्यान्धुः कर्कन्धुः। अटतीत्यच् अटा, कुलानामटा कुलटा । एषु पूर्वपदान्तस्योत्तर पदादे ; लोपः। हिनस्तीति सिंहः, उदित्वानोऽन्तः, सकार-हकारयो विपर्ययः । मयूरमहिषादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्युत्पत्तिज्ञापनार्थम् । आकृतिगणोऽयम् । तेन अश्व इव स्थाम बलमस्याऽश्वत्थामेत्यादयः शिष्टैः प्रयुक्ताः पृषोदरादयः । वर्णागमो वर्णविपर्ययश्व, द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थीतिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥१॥ वतंसः, अवंतसः। वक्रयः अवक्रयः। पिहितम् अपिहितम् । पृषोदरादिप्रपञ्च एषः। तेन शिष्टप्रयोगोऽनुसरणीयः।
॥ इति समासाश्रयप्रक्रिया ॥
॥ अथ समासान्तप्रक्रिया ॥ ऋक्पू:पथ्यपोऽत् ।७।३।७६॥ ऋच, पुर, पथिन् , अप् इत्येतदन्तात्समासाद् अत्-अकारः समासान्तो भवति । ऋचोऽर्धमधर्चः। अर्धर्चादयः पुंसि क्लीबे च । सप्तर्च सूक्तम् । १-अधिकरणेऽनट् । २-३-४-षष्ठीतत्पुरुषः । ५-वा वाप्य इति कादेशे .
अवात्तनेरौणादिकः सः । ६-अवात्क्रीणाते र्भावे अल् । ७-अर्धा धातोः क्तर, धाग इति हिः । .. १-समेंऽश इति समासः । २-सप्त ऋचोऽस्मिन् । नोपारादेशौ ।