________________
५६४
हैमनूत लघुप्रक्रिया कुत्सिताः पुरुषा अस्मिन् कापुरुषः कुपुरुषो ग्रामः ।
अल्पे | ३ |२| १३६|| ईषर्थे वर्तमानस्य कुशब्दस्य उत्तरपदे परे काssदेशो भवति । ईषन्मधुरं कामंधुरम् । ईषदच्छं काच्छम् ।
काकवौ वोष्णे |३|२| १३७॥ कुशब्दस्योष्णशब्दे उत्तरपदे का कब इत्येतावादेशौ वा भवतः । ईषत्कुत्सितं वोष्णं कोष्णं, कवोष्णम् । पक्षे तत्पुरुषे कदादेशः, कदुष्णम् ।
पृषोदरादयः | ३ | ३|१५५ ॥ पृषोदर इत्येवं प्रकाराः शब्दा विहितलोपागम - वर्ण-विकाराः शिष्टेः प्रयुज्यमानाः साधवो भवन्ति । पृषदुदरमुदरे वास्य पृषोदेरेः, पृषत उदरं पृषोदरेम् । अत्र तकारलोपः । जीवनस्य जलस्य मूतः पटबन्धो जीमूतैः । अत्र वनस्य लोपः । वारिणो वाहको बलाहेकैः । अत्र पूर्वपदस्य व उत्तरपदादेश्व ल आदेशः । आध्यायते इत्यादयः । ध्यस्य ढयादेशः । बाहुलकात्कर्मणि डः । मह्यां रौति मयूरः । पचादित्वादचि अन्तलोपः महीशब्दस्य मयूभावः । ङस्युक्त समासः। मह्यां शेते महिषः, डप्रत्ययः । पूर्वपदस्य ह्रस्वत्वं शस्य च षत्वम् । पिशितमश्नाति पिशाचः, अय्, डन्स्युक्तसमासः, पिशितस्य पिशा देशः, अश्नातेः शस्य चादे
९-पाक्षिकः कजपि । १० - गतिवन्य इति समासः । स्वरादौ परत्वादयमेव न कत् । ११ - बहुत्रीहिसमासः । १२-१३ - षष्ठी - तत्पुरुषः । १४- याजकादित्वात्समासः । -