________________
हैमनूतनलघुप्रक्रिया पदः । प्रवर्षतीति प्रावृट् । मर्म विध्यतीति मर्मावित् । अभिरोचते इत्यंभीरुक् । जलं सहते जलासट् । परितनोतीति परीतत् ।
द्वियष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीति'बहुव्रीहौ ।३।२।९२॥ द्वि, त्रि, अष्टन् इत्येतेषां यथासंख्यं
द्वा, त्रयस् , अष्टा, इत्येते आदेशाः प्राक् शतात्संख्यायामुत्तर'पदे परतो भवन्ति । अशीति बहुव्रीहिसमासविषयं चोत्तरपदं
वर्जयित्वा । द्वयधिका दश, द्वौ च दश चेति वा द्वादश । — एवं द्वाविंशतिरित्यादि । त्रयोदश। त्रयोविंशतिरित्यादि ।
अष्टादश । अष्टाविंशतिरित्यादि । प्राक्शतादिति किम् ? द्विशतम् , द्विसहस्रमित्यादि । अनशीति बहुव्रीहाविति किम् ? द्वयंशीतिः, द्वौ वा त्रयो जा द्वित्रीः।
चत्वारिंशदादौ वा ।।२।९३॥ द्विव्यष्टानां प्राक् शताच्चत्वारिंशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा वा भवन्त्यनशीति बहुव्रीहौ । द्वा. .. ३-मर्म विध्यतीति क्विप् । उस्युक्तसमासः, नाम्न इति न लोपः, ज्याव्यध -- इति वृत् । ४-चज इति कः, तृतीयः, वा प्रथमः । ५-हो धुडिति • ढः, तृतीयः, वा प्रथमः । ६-क्विपि यमिरमीति नलोपः, हस्वस्येति तोऽन्तः, तृतीयः, वा प्रथमः । ७-मयूरव्यंसकादिर्द्वन्द्वसमासो वा। डति ष्ण इति असो लुकि न लोपः । ८-पदत्याद्रुः घोषवतीत्युः, अवर्णस्ये- त्योकारः । ९-द्वयधिकं शतमिति मयूरव्यंसकादिः, द्वाभ्यां कृतमधिकमिति
तृतीयेवि समासः । १०-द्वयधिकाऽशीति द्वौ याऽशीतिश्चेति द्वन्द्वो वा। -११-मुज्वार्य इति समास प्रमाणीति :, अन्त्यस्वरादिलोपः, जस् ।