________________
हैमनूतनलघुप्रक्रिया वधुका । बहुर्कुमारीकः, बहुर्लक्ष्मीकः ।
नवाऽऽपः । २।४।१०६॥ आपः कचि परे हुस्वो वा भवति । प्रियखट्वकः, प्रियखट्वाकः । बहुमालेकः । बहुमालाकः ॥
नाम्नि । ३।२१७५॥ अष्टन् शब्दस्योत्तरपदे परे संज्ञायां दीघोऽन्तादेशो भवति । अष्टौ पदान्यत्र-अष्टापदः कैलासः। अष्टापदं सुवर्णम् , अष्टौवको मुनिः। ___ ऋषौ विश्वस्य मित्रे ॥२॥७९॥ विश्वशब्दस्य मित्रशब्दे उत्तरपदे परे संज्ञायामृषौ वाच्ये दीर्णोऽन्तादेशो भवति । विश्वस्य मित्रं विश्वामित्रो नामर्षिः। अन्यत्र विश्वमित्रमित्येव । __ वसुराटोः ।।२।८१॥ विश्वशब्दस्य वसौ राटि चोत्तरपदे दीर्घोऽन्तादेशो भवति । विश्वं वस्वस्य विश्वावसुः । विश्वस्मिन् राजते विश्वारोट् । राट् इति निर्देशादिह नविश्वराजौ, विश्वराजः:-विश्वाराड्भ्याम् , विश्वाराइत्सु, विश्वाराट्सु । नितरां वर्तन्तेऽस्यामित्यधिकरणे क्विप, नीवृज्जन१५-बह्वयः कुमार्यो यस्य, ऋन्नित्यदित इति कच् । ड्यादिति प्राप्तो हृस्वो न कचीति निषिध्यते । १६-बह्वयो लक्ष्म्यो यस्य, कच् । १७-प्रिया खट्वा यस्य, शेषादिति कच् । १८-बह्वयो माला यस्य, कच् । १९-अष्टावप्यङ्गानि वक्राणि यस्य सः । . १-क्विपि इस्युक्तसमासः। यजसृजेति षः, धुट इति तृतीयः, विरामे इति प्रथमः । २-गतिकारकस्येति दीर्घः । एवमप्रेऽपि ।