________________
५६०
हैमनूतनलघुप्रक्रिया - षात्पदे । २।३।९२॥ पदे परतो यः षकारस्तस्मान्निमित्तात्परस्य नकारस्य णो न भवति । निष्पानम् । एवमन्यत्र ।
क्षुम्नादीनाम् । २।३।९६॥ क्षुम्ना इत्येवमादीनां नकारस्य णो न भवति । क्षु नाति, आँचार्यानी । सर्वनाम , ग्रामनटः, हरिनन्दी, गिरिंगहनमित्यादि । आकृतिगणोऽयम् ।
ऋफिडादीनां डश्चलः ।२।३।१०४॥ऋफिड इत्यादीनामृरो लुलौ डकारस्य च लो वा भवति । लुफिडः, लुफिलः, ऋफिडः । लोम, रोम । तलुनः तरुणः, । मूलम् , मूरम् । रेखा । लेखा अर्थभेदेऽपि इला भूमिः, इराऽमृतम् । कलभो बालहस्ती, करभ उष्ट्रः । वाल: केशः, वारः क्रियाभ्यावृत्तिरित्यादि।
त्वे । २।४।१०॥ड्यावन्तस्य त्वे प्रत्यये परे बहुलं इस्वो भवति । रोहिण्या भावो रोहिणितम् , रोहिणीत्वम् , अजैत्वम् , अजात्वम् । कुमारिका। सोमपैकः। लैंक्ष्मिका, ४-पातेरनट् , निर्दुरिति षः, स्वरादिति णः प्राप्तः । ५-क्षुभ् धातुः क्रयादिः। ६-स्त्रियां ङीरानन्तश्च । ७-षष्ठी समासः, पूर्वपदस्थादिति णः प्राप्तः । ८-हरिं नन्दयतीत्येवं शीलः-तन्नामा कश्चित् । ९-षष्ठीसमासः, पूर्वपदस्थादिति णः पाप्तः। १०-श्येतैतेति ङीस्तो नश्च, णत्वम् । ११-स्त्रियामजादित्वादाब्दीर्घः । १२-वयस्यनन्त्ये इतिङीः, अल्पादौ कः, ड्यादिदुत इति ह्रस्वः । १३-सोमंपिबतीति क्विप् । अज्ञातादौ कः । १४-अल्पादौ कः। ।