________________
हैमनूतनलघुप्रक्रिया
५५९ प्रज्ञादित्वादण् । वाद्येति किम् ? सुरवाहनम् । अत्र सम्बन्धमात्रमिष्टं न वाह्यवाहकभाव इति न भवति । नरवाहनः । अत्र नर एव वाहनमिति वाह्यात्परत्वाभावान भवति ।
ग्रामाग्रान्नियः ।२।३७१।। ग्रामाग्राभ्यां परस्य नियो नकारस्य णो भवति, ग्रामणीः, अग्रणीः।
वोत्तरपदान्तनस्यादेरयुवपक्वाह्नः ।२।३७५॥ पूर्वपदस्थाद्रप्रवर्णात्परस्योत्तरपदान्तभूतस्य नागमस्य स्यादेश्चनकारस्य, णो वा भवति, न चेत्स नकारो युवन् पक्वान् शब्दसम्बन्धी भवति । मोषवापिणौ, माषवापिनौ। माषापाणि, माषवापानि कुलानि । प्रहिण्वन् , प्रहिन्वन् । धर्माङ्गण, धर्माङ्गेन । युवादिपर्युदासात्-रैम्ययूना, प्रपक्यानि, दीर्घा ही शरदित्यादौ न भवति । प्रहाणः प्रेहीणः प्रयाणमित्यादि । णत्वप्रकरणेऽलचटतवर्गशसान्तर इति सर्वत्रानुसन्धेयम् ।
७-नरो वाहनं यस्येति बहुव्रीहिः । ८-ग्रामं नयतीति क्विपि, ङस्युक्त समासः । ग्राम ङस् नी इत्यलौकिकविग्रहः । ९-माषान् वपत इति शीले णिन् , ङस्युक्तसमासः । १०-माषान् वपन्तीति कर्मण इत्यण इस्युक्तसमासः। ११-प्राद् हिधातोः, शतरि ३नुप्रत्यये उदित इति नोन्ते गतिसमासः । १२-धर्मस्याङ्गं तेन । १३-रम्यश्चासौ युवा
च तेन । १४-दीर्घाण्यहानि यस्यां सा । नान्तत्वान्डी. अनोऽस्य । १-प्राद् गतौ हाधातोः क्तः, ओदित्त्वान्नः, स्वरादिति णः। २-प्राद्
जहातेः क्तः, ओदित्वान्नः, ई wञ्जन इति ईः । ३-प्राद् यातेरनट् ।