________________
५५८
हैमनूतनलघुप्रक्रिया ॥ अथ समासाश्रयप्रक्रिया ॥ एत्यकः ।।३।२६॥ ककारवर्जितानाम्यन्तःस्थाकवर्गात्परस्य सकारस्य एकारे परे समासे पो भवति, संज्ञायाम् । हरिषेणः, श्रीषेणः।
प्रष्ठोऽग्रगे ।२।३।३२॥ प्रात्परस्य स्थस्सकारस्य को निपात्यतेऽग्रगामिनि वाच्ये । श्रेष्ठः, अग्रगामीत्यर्थः। . __ हूस्वान्नाम्नस्ति ।२।३॥३८॥ नाम्नो विहिते तकारादौ प्रत्यये परे हूस्वाभामिन उत्तरस्य सकारस्य षो भवति । तल्, त्व, तस् , तय, तरप् , तमपस्तादय इहेष्टाः । चतुष्टयम् , सर्पिष्टमम् ।
गिरिनद्यादीनाम् ।।३।६८॥ गिरिनदीत्यादीनां नकारस्य वा णो भवति । गिरिणदी, गिरिनदी । मौषोणम् , माषोनम् ।
वाह्याद्वाहनस्य ।२।३।७२॥ वाह्यमिक्ष्वादि, तद्वाचिनो रेफादिमतः, पूर्वपदात्परस्य वाहनशब्दसम्बन्धिनो नकारस्य णो भवति । इधुवाहणम् । वहे: करणेऽनट् ,.
१-हरेः सेनेव सेना यस्येत्युष्ट्रमुखादिसमासः। गोश्चान्त इति हस्वः। रवर्णादिति णः । २-प्रात्तिष्ठतेः कः, अनेन षत्वे, तवर्गस्येति ठः । ३-अवयवे तयः, चटते इति सः, षत्वे, तवर्यस्येति टः । ४-प्रकर्षे तमप् । ५-षष्ठीतत्पुरुषः । ६-ऊनार्थेति तृतीयासमासः ।