SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ५५७ अलुपि वा।२।३।१९॥ मातृपितृभ्यां परस्य स्वसृशब्दसम्बन्धिनः सकारस्याऽलुपि समासे पो वा भवति । मातु:वसा, मातुःस्वसा, मातृष्वसा, एवं पितुःष्वसेत्यादिः । निर्दुः सुवेः समसूतेः।२॥३॥५६॥ निर्दुःसुविभ्यः परस्य समसतिसम्बन्धिनः सकारस्य पो भवति । समानिष्क्रान्तो निःषमः । दुःस्थिताः समाः यस्मिन् स दुःषमः कालः। एवं सुषम इत्यादि । ___ ऋतां विद्यायोनिसम्बन्धे ।।२।३७॥ ऋकारान्तानां शब्दानां विद्याकृते योनिकृते च सम्बन्धे निमित्ते सति वर्तमानानां सम्बन्धिन्याः षष्ठया विद्यायोनिसम्बन्धे एव निमित्ते सति वर्तमाने उत्तरपदे लुप् न भवति । __ भ्रातुष्पुत्रकस्कादयः ।।३।१४॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफेषु - परेषु रेफस्य स्थाने यथासंख्यं कृतषत्वसत्वाः साधवो भवन्ति। भ्रांतुष्पुत्रः, परमं च तद् यजुश्च परमयजुः, तस्य पात्रं परमेयजुष्पात्रम् । कैस्कः कौतस्कुंत इत्यादि । नामिनः परस्य रेफस्य पत्वमन्यत्र सत्वमिति विवेकः। ॥ इत्यलुप् समासः ॥ २-ऋतामिति षष्ठया अलुप् , ऋनो डुरो रेफस्य षः। ३-षष्ठी तत्पुरुषः, सकारस्य रुः । ४-वीप्सायां द्वित्वे कस्कस् इत्यत्र रुत्वे सः। ५-वीप्सायां द्वित्वे कुतस् कुतस् इत्यत्र शैषिको भवेऽर्थेऽण् , प्रायोऽव्ययस्येत्यन्त्यस्वरादिलोप आदिवृद्धिः सो रुः । ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy